________________ 568 नैषधमहाकाव्यम् / दांतोंके द्वाराही कठोर सुपारी का खण्डन किया जा सकता है // सरस्वती देवीका मुख तर्कशास्त्रसे रचा गया है ] 83 // सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुमयीभविष्णु / तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् // 84 // सपल्लवमिति / व्यासपराशराभ्यां प्रणीतभावात् प्रणीतत्वात् , उभयीभविष्णु महापुराणोपपुराणतां प्राप्तं, 'भुवश्च'इतीष्णुच यद्यप्यष्टादशपुराणानां कर्त्ता सत्यवती. सुतः, तथाऽपि 'पुराणं वष्णवं चक्रे यस्तं वन्दे पराशरम्'इत्यादि प्रसिद्धमेवमुक्तम् / तत् प्रसिद्धं, मत्स्यपद्मादि मत्स्यपद्मपुराणादिसंज्ञादिः, आदिशब्दात् कूर्मस्कन्दादीनां सङग्रहः; अन्यत्र-मत्स्यपद्मादिसामुद्रिकरेखादिः, आदिशब्दात् ध्वजकुलिशादि. सङ्ग्रहः, तैः उपलक्ष्यमाणं निर्दिश्यमानमित्यर्थः, सपल्लवं कथाऽऽख्यायिकादिना सविस्तरं, 'पल्लवं स्वस्त्री प्रकोष्ठे चापि विस्तृतौ' इति वैजयन्ती, अन्यत्र-सह सदृशं पल्लवेन सपल्लवं किसलयसदृशम् / 'अव्ययं विभक्ति-'इत्यादिना सहशब्दस्य गुणीभूतसादृश्यार्थेऽव्ययीभावः / 'अव्ययीभावे चाकाले' इति सहशब्दस्य सभावः, 'सहसादृश्यसाकल्ययोगपद्यसमृद्धिषु' इति विश्वः, पुराणं मत्स्यपद्मादि, यस्याः सरस्वत्याः, पाणियुग्मं ववृते पाणिपद्मत्वेन परिणतमित्यर्थः / उत्प्रेक्षा // 84 // व्यास तथा पराशरके द्वारा रचित होनेसे द्विगुणत्व (पुराण तथा उपपुराण भाव ) को प्राप्त होनेबाला, मत्स्य तथा पम आदि (कूर्म, वराह आदि नाम) से उपलक्ष्यमाण ( कहा जानेवाला / पक्षा०-मत्स्य, पद्म आदि (ध्वजा, कुलिश आदि ) शुभ लक्षणोंसे युक्त ) तथा कथा, आख्यायिका आदिसे युक्त (पक्षा०-शृङ्गार से युक्त। अथवापल्लवके समान ) पुराण जिस ( सरस्वती देवो ) की दोनों भुजाएं हैं अर्थात् उक्त गुणवाले पुराणही सरस्वतीकी दोनों भुजाओंके रूप में परिणत हैं // 84 / / आकल्पविच्छेदविवर्जितो यः स धर्मशास्त्रव्रज एव यस्याः / पश्यामि मूर्द्धा श्रुतमूलशाली कण्ठे स्थितः कस्य मुदे न वृत्तः 1 // आकल्पेति / आकल्पं कल्पान्तपर्यन्तं, विच्छेदेन विवर्जितः अविच्छिन्नसम्प्रदायीत्यर्थः; अन्यत्र-आकल्पः अलङ्कारादिः, तद्विच्छेदविवर्जितः तत्सहितः, नित्यः भूषित इत्यर्थः, श्रुतिर्वेद एव, मूलं प्रमाणं, तेन शालते; अन्यत्र-श्रुतिमूलाभ्यां कर्णमूलाभ्यां, शालते इति तथोक्तः, 'वेदे श्रवसि च श्रुतिः' इत्यमरः, अथवा-श्रयते यः स श्रुतिः शब्दः, तस्य ग्रहणे मूलं कारणं, कर्णों इत्यर्थः, ताभ्यां शालते; कण्ठे स्थितो मुखस्थितः, अन्यत्र-कण्ठोपरि स्थितः, यो धर्मशास्त्राणां मन्वादिस्मृतीनां, ब्रजः स एव यस्याः देव्याः, मूर्द्धा वृत्तः संवृत्तः, परिणत इत्यर्थः, अन्यत्र-वृत्तः वर्तलः, मूर्द्धा कस्य मुदे न ? सर्वस्यापि स्यादेवेत्यर्थः / पश्यामि इति उत्प्रेक्षे, अहमिति शेषः // 85 //