________________ नैषधमहाकाव्यम् अथानन्तरकृत्यं सविशेषमुपदिशति-अभ्यर्थनीय इत्यादिश्लोकपत्रकेन / गतेन इतो यातेन त्वया स राजा नलः शुद्धान्तगतः अन्तपुरस्थो मदथं मत्प्रयोजनं नाभ्यर्थनीयो न वाच्यः, दुहादित्वाद् द्विकर्मत्वम् 'अप्रधाने दुहादीनामिति राज्ञोऽभि. हितकर्मत्वम् कुतः ? हि यस्मात्तदा तस्मिन् काले प्रियाणामास्यदाक्षिण्यं मुखाव. लोकनोत्थापितच्छन्दानुवृत्तिबुद्धिरित्यर्थः / तेन बलात् कृतो बलात्प्रतिवर्तितो भन्यवधूनिषेधः उदयेत् उत्पद्यते // 92 // (अब चार श्लोकों ( 193-95) से नलसे प्रार्थना करनेके उचित अवसरको कहती है-) यहाँसे गये हुए तुम रानियों के बीचमें स्थित राजा नलसे मेरे लिए प्रार्थना मत करना, ( अथवा-यहाँसे गये हुए तुम मेरे लिए राजा नलसे प्रार्थना करना, किन्तु रानियों के बीचमें प्रार्थना नहीं करना ), क्योंकि उस समय प्रियाओंके मुख देखनेसे उत्पन्न लज्जा एवं प्रेमसे दूसरी स्त्रीके विषयमें निषेध हो सकता है / / 92 // शुद्धान्तसंभोगनितान्ततृप्ते न नैषधे कार्यामदं निगाद्यम् / अपां हि तृप्ताय न वारिधारा स्वादुस्सुगन्धिः स्वदते तुषारा 93 / / शुद्धान्तेति / किञ्च शुद्धान्तसम्भोगेन अन्तःपुरस्त्रीसम्भोगेन नितान्ततृप्ते अत्यन्तसन्तुष्टे नैषधे नलविषये इदं कार्य न निगायं न निगदितम्यम्, 'ऋहलोय॑त् , 'गदमदे'त्यादिना सोपसर्गाचतो निषेधात् / यथाहि अपां तृप्ताय अनिस्तृप्तायेत्यर्थः। 'पूरणगुणे'त्यादिना षष्ठीसमासप्रतिषेधादेव ज्ञापकात् षष्ठी 'रुच्यर्थानां प्रीयमाण' इति सम्प्रदानत्वाचतुर्थी। स्वादुमधुरा सुगन्धिः कर्पूरादिवासना शोभनगन्धा / अत्र कवीनां निरङ्कुशत्वाइन्धस्येत्वं तदेकान्तत्वनियमानादरः / तुषारा शीतला वारिधारा न स्वदते न रोचते हि / दृष्टान्तालंकारः // 93 // रानियों के साथ सम्भोग कर अत्यन्त सन्तुष्ट नलते रस कार्यको मत कहना, क्योंकि जलसे सन्तुष्ट व्यक्तिको स्वादिष्ट सुगन्धयुक्त एवं ठण्डी जलकी धार। नहीं रुचती। [उक्त दृष्टान्तद्वारा दमयन्तीने नलकी अन्य रानियोंको सामान्य जलतुल्य तथा अपनेको मधुर सुगन्धित एवं शीतल जलतुल्य कहकर उनकी अपेक्षा अपनेको बहुत श्रेष्ठ ध्वनित किया है। विज्ञापनीया न गिरो मदर्थाः ऋधा कदुष्णेद नषधस्य / पित्तेन दूने रसने सित्ताऽपि तिक्तायते हमकुलावतंम ! // 34 // विज्ञापनीया इति / हे हंसकुलावतंस ? नैषधस्य हृदि हृदये क्रुधा क्रोधेन कदपणे ईषदुष्णे चकारात्कोः कदादेशः। मामिमाः मदाः अर्थन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या' गिरो वाचो न विज्ञापनीया न विधेयाः न विज्ञाप्या इत्यर्थः / तथाहि पित्तेन पित्तदोषेण दूने दूषिते रसने रसनेन्द्रिये सिता शर्करापि तिक्तायते तिक्तीभवति लोहितादित्वात् क्यष , वा क्यष' इति आत्मनेपदम् / अत्रापि दृष्टान्तालङ्कारः // 94 //