________________ द्वितीयः सर्गः 126 इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमी विपिनभुवि सखीभिस्सार्धमाबद्धखेलाम् / / 106 / / अनुभवतीति / विपिनभुवि वनप्रदेशे सखीभिः सहचरीभिः 'सख्यशिश्वीति भाषायामिति निपातनात् ङीप। सार्द्धमाबद्धखेलामनुबद्धक्रीडां, 'क्रीडा खेला च कर्दनमित्यमरः / भैमी प्रेक्ष्य पक्षिणः सा प्रसिद्धा शची इन्द्राणी घृताचीमुखाभिः सहचरीभिः सह इत्थमुच्चैरुत्कृष्टं नन्दनानन्दं नन्दनसुखं नानुभवतीति मतिः बुद्धिरुदयासीदुस्थिता / अत्र प्रेक्ष्य मतिरिति मननक्रियापेक्षया समानकर्तकत्वात् पूर्वकालत्वाच्च प्रेक्ष्येति क्त्वानिर्देशोपपत्तिः, तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात् / प्राधान्यन्त्वप्रयोजकमिति न कश्चिद्विरोधः। अत्रोपमानादपमेयस्याधिक्योक्तेर्व्यतिरेकालङ्कारः 'भेदप्रधानसाधम्यमुपमानोपमेययोः। आधिक्यादल्पकथनाद्वयतिरेकः स उच्यते // ' इति लक्षणात् // 101 // ___ वह ( सुप्रसिद्ध ) इन्द्राणी, घृताची आदि ( अप्सरा ) सहचरियोंके साथ इसी प्रकार ( दमयन्तीके समान ) नन्दन वनमें आनन्द पाती है क्या ?' ऐसा विचार क्रीडोद्यान में सखियोंके साथ क्रीडा करती हुई दमयन्तीको देखकर हंसको हुआ // 109 // श्रीहषः कावराजराजमुकुटालङ्कारहीरस्सुत श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / द्वैतीयोकतया मितोऽयमगमत्तस्य प्रबन्धे महा काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः // 150 / / श्रीहर्षमित्यादि / व्याख्यातम् / द्वितीय एव द्वैतीयीकः, 'द्वितीयादीका स्वार्थे वा वक्तव्य' इतीकक द्वैतीयीकतया मितो द्वितीयत्वेन गणितः द्वितीय इत्यर्थः, अगमत् // 110 // इति 'मल्लिनाथ'सूरिविरचितायां 'जीवातु' समाख्यायां नैषधटीकायां द्वितीयः सर्गः समाप्तः // 2 // कविराज... ... ... ... उत्पन्न किया उसके मनोहर रचनारूप 'नैषधीयचरित' नामक महाकाव्यमें द्वितीयसर्ग समाप्त हुआ / (शेष व्याख्या प्रथमसर्गके समान जाननी चाहिये)। यह 'मणिप्रभा' टीकामें 'नैषधचरित' का द्वितीय सर्ग समाप्त हुआ // 2 //