SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ 380 नैषधीयचरित महाकाव्यम् नृशंसता = नशस+ तल + टाप् + सु / "नृशंसो घातुकः क्रूरः" इत्यमरः / संभविनी = सम्भवतीति तच्छीला सं+भू+णिनि + ङीप् + सु / / 144 // जितस्त्वयाऽऽस्येन विधुः स्मरः श्रिया, कृतप्रतिज्ञो मम तो बंधे कुतः ? / / तवेति कृत्वा यदि तज्जितं मया न मोघसंकल्पधराः किलाऽमराः // 14 // अन्वयः-(हे प्रिय !.) त्वया आस्येन विधुः जित:, श्रिया स्मरो जितः / कुतः तो मम वधे कृतप्रतिज्ञौ ? ( अथ ) तव इति कृत्वा यदि, तत् मया जितम् / अमरा मोघसङ्कल्पधरा न किल / / 145 // व्याख्या-(हे प्रिय ! ) त्वया - भवता, आस्येन = मुखेन, विधुः = चन्द्रः, जित: = पराजितः, श्रिया = सौन्दर्येण, स्मरः = कामदेवः, जितः = पराजितः / कुतः = कस्माद्धेतोः, तो = विधुस्मरौ, मम = भवत्प्रियायाः, वधे- व्यापादने, - कृतप्रतिज्ञौ = विहितसन्धौ, जेतारं भवन्तं विहाय निरपराधां मां किमति हन्तुमुधु. क्ताविति भावः / अथ, तव = भवतः, इति = एवं, कृत्वा = विधाय, यदि = चेत्, मां त्वदीयां विमृश्येति भावः / तत् = तर्हि, मया, जितं = जयः प्राप्त इति भावः / यतः अमराः - देवा:, मोघसङ्कल्पधराः = निष्फलमानसकर्मधारिणः, न = नो भवन्ति, किला = निश्चयेन / विधुस्मरावपि देवावेवेति भावः // 145 // अनुवादः-- ( हे प्रिय ! ) आपने अपने मुखसे चन्द्रकी और अपने सौन्दर्यसे कामदेवको जीत लिया। किस कारण से उन दोनोंने मेरे वधके लिए प्रतिज्ञा की है ? अथ वा उन्होंने मुझे आपकी समझकर प्रतिज्ञा की हो तो मैंने जीत लिया, क्योंकि देवतालोग निष्फल सङ्कल्पवाले नहीं होते हैं / ' 145 // टिप्पणी-जितः जि+क्त ( कर्ममें) + सु / कुतः कस्मात् इति, किम् + तसिल / कृतप्रतिज्ञौ = कृता प्रतिज्ञा याभ्यां तौ ( बहु०) / कामदेव और चन्द्र दोनों ही जीतनेवाले आपको छोड़कर निरपराध ( वेकसूर ) मुझे मार रहे हैं / मोघसङ्कल्पधराः = धरन्तीति धराः, धृञ् + अच्+जस् / मोघश्चाऽसौ सङ्कल्पः (क० धा० ), तस्य धराः (10 त०)। इस पद्यमें नलको जीतने में असमर्थ चन्द्र और कामदेवके दमयन्तीको “यह नलकी प्रेयसी है" ऐसा समझकर अपकार करनेका कथन होनेसे प्रत्यनीक अलङ्कार है / उसका लक्षण है "प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि / तदीयस्य तिरस्कारस्तस्यवोत्कर्षसाधनः / / (साद० 10 / 86) // 145 / / निजांऽशुनिर्दग्धमदङ्गभस्मभिर्मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् / त्वदास्यतां यास्यति तावताऽपि किं वधूवधेनैव पुनः कलङ्कितः? // 146 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy