SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ 378 नैषधीयचरितं महाकाव्यम् व्याख्या-सा = दमयन्ती, यदा = यस्मिन्समये, अपवार्य अपि = व्यवधाय अपि, सख्याः = वयस्यायाः, श्रवसि = कर्णे, प्रियाय = दयिताय, नलायेति भावः / उत्तरं = प्रतिवाक्यं, दातुं = वितरीतं, न शशाक = न समर्था बभूव, तदा = तस्मिन्समये, सखी एव = दमयन्त्या वयस्या एव, विहस्य = हसित्वा, तं = नलम्, अब्रवीत् = उक्तवती / अधुना = इदानीं, भवत्प्रिया = भवद्वल्लभा दमयन्ती, ह्रिया = लज्जया हेतुना, मौनधना = बद्धमौना, अस्तीति शेषः / / 142 // अनुवादः-दमयन्ती जब दूसरेसे छिपा करके भी सखीके कानमें प्रिय नलको उत्तर देने में समर्थ नहीं हुई तब उनकी सखीने ही हंसकर नलको कहा"इस समय आपकी प्रिया दमयन्तीने लज्जासे मौन लिया है" // 142 // टिप्पणो- अपवार्य = अप + वन+णि+क्त्वा ( ल्यप् ) / शशाक = शक +लिट् + तिप् (णल ) / विहस्य = वि+हस् + क्त्वा ( ल्यप् ) / अब्रवीत् - ब्रू+लङ + तिप् / भवत्प्रिया = भवतः प्रिया (ष० त०)। मोनधना = मौनम् एव धनं यस्याः सा ( बहु०)। दमयन्तीने लज्जासे मौन लिया है, वैराग्य वा द्वषसे नहीं, यह भाव है // 142 // पदाऽऽतिथेयोल्लिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् / जगाद यां संव मुखान्मम त्वया प्रसूनबाणोपनिषन्निशम्यताम् / / 143 / / अन्वयः-(हे महोदय ! ) इयं लिखितस्य ते पदाऽऽतिथेयान् लोचननिर्झरान् वितन्वती यां जगाद सा एव प्रसनबाणोपनिषत् / मम मुखात् त्वया निशम्यताम् // 143 / / ____ व्याख्या-(हे महोदय ! ) इयं = दमयन्ती, लिखितस्य = चित्रगतस्य, ते - तव, पदाऽऽतिथेयान् = पादाऽऽतिथ्यरूपान्, पाद्यभूतानिति भावः / लोचननिर्झरा, = नयनवारिप्रवाहान, वाष्पपुरानिति भावः / वितन्वती = कुर्वती सती, यांप्रसूनबाणोपनिषदं, कामरहस्यमिति भावः, जगाद = उक्तवती, त्वदागमात्प्रागिति शेषः / सा एव = पूर्वाऽभिहिता एव, नाऽन्येति भावः / प्रसूनबाणोपनिषत् = कामरहस्यं, मम, मखात् = वदनात्, त्वया = भवता, निशम्यतां = श्र यताम् // 143 // ___ अनुवादः--(हे महोदय ! ) इस दमयन्तीने चित्रलिखित आपके चरणोंके आतिथ्य ( पाद्य ) रूप अश्रुप्रवाहों को फैलाकर कामदेवके अनिषत् (रहस्यरूप) जिस वाणीको कहा था उसीको आप मेरे मुखसे सुन लें // 143 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy