________________ 120 नैषधीयचरितं महाकाव्यम् अन्वयः-तत्किरणात् घनानां चन्द्राऽधिकतन्मुखचन्द्रिकाणां दरायतं पुरःपरिस्रस्तपृषद्वितीयं बिन्दुवृन्दं रदाऽऽवलिद्वन्द्वति // 44 // . __ व्याख्या--पद्यत्रितयेन दन्तपङ्क्तिद्वयं वर्णयति-चन्द्रेति / तत्किरणात् == चन्द्ररश्मः, घनानां = सान्द्राणां, चन्द्राऽधिकतन्मुखचन्द्रिकाणां = सुधांऽशूत्कृष्टदमयन्तीवदनचन्द्रकौमुदीनां, दाऽऽयतम् = ईषद्दीर्घ, पुरःपारेस्रस्तपृषद्वितीयं = प्रथम निःसृतविन्दुद्वितीयं, बिन्दुवृन्दं = बिन्दुसमूहः, रदाऽऽवलिद्वन्द्वति = दन्तपङ्क्तिद्वयम् इव आचरति। प्रथमनिःसृता बिन्दुपङ्क्तिः अधरदन्तपङ्क्तिः उत्तरा अनन्तरजाता इात्युत्प्रेक्षा // 44 // अनुवादः-चन्द्रकिरणसे घनी, चन्द्रसे अधिक दमयन्तीके मुखचन्द्रकी चाँदनियोंका कुछ दीर्घ पहले गिरी हुई बूदें और दूसरी बूंदें दाँतोंकी दो पङ्क्तियाँ प्रतीत होती हैं // 44 // टिप्पणी-तत्किरणात् = तस्य ( चन्द्रस्य ) किरणः, तस्मात् ( ष० त० ) / चन्द्राऽधिकतन्मुखचन्द्रिकाणां = चन्द्रात् अधिकम् (ष० त० ) / एतस्या मुखं (10 त० ), चन्द्राऽधिकं च तत् एतन्मुखम् (क० धा० ), तस्य चन्द्रिकाः, तासाम् (ष० त०)। दरायतं = दरं च तत् आयतम् (क० धा० ) / पुरःपरिस्रस्तपृषद्वितीयं = पुरःपरिस्रस्तानि पृषन्ति एव द्वितीयानि यस्य तत् ( बहु० ) / बिन्दुवृन्दं = बिन्दूनां वृन्दम् (ष० त०)। रदाऽऽवलिद्वन्द्वति = रदानाम् आवली ( ष० त० ), तयोर्द्वन्द्वम् (10 त० ) / रदाऽऽवलिद्वन्द्वम् इव आचरति, रदाऽवलिद्वन्द्व शब्दसे "सर्वप्रातिपदिकेभ्यः क्विब वा वक्तव्यः" इससे क्विप् + लट् + तिप् / पहले निकली हुई बिन्दुपििक्त छोटी होनेसे नीचेकी दन्तपङ् िऔर पीछे निकली हुई बिन्दुपङ्क्ति बड़ी होनेसे ऊपरकी दन्तपङिक्त हुई यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 44 // सेयं ममैतद्विरहातिमूर्छातमीविभातस्य विभाति सन्ध्या।। महेन्द्रकाष्ठागतरागकी द्विजैरमीभिः समुपास्यमाना // 45 // अन्वयः-महेन्द्र काष्ठागतरागकी अमीभिः द्विजैः समुपास्यमाना सा इयं मम एतद्विरहाऽतिमूतिमीविभातस्य सन्ध्या विभाति // 45 // व्याख्या-महेन्द्रकाष्ठागतरागकी = इन्द्रोत्कर्षप्राप्ताऽनुरागजनयित्री, अन्यत्र-इन्द्रदिशा ( प्राची ) गत लौहित्यजनयित्री, अमीभिः = एतैः, द्विजः = दन्तः, इन्द्रदिशापक्ष-विप्रः, समुपास्यमाना = सेव्यमाना, सा=प्रसिद्धा, इयं =