SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः 79 आकोटमाकैटभरि तुल्यः स्वाऽभीष्टलाभात् कृतकृत्यभावः / भिन्नस्पृहाणां प्रति चार्थमर्थ द्विष्टत्वभिष्टत्वमपव्यवस्थम् // 106 // अन्वयः-आकीटम् आकैटभरि स्वाऽभीष्टलाभात् कृतकृत्यभावः तुल्यः / भिन्नस्पृहाणाम अर्थम् अर्थ प्रति द्विष्टत्वम् इष्टत्वं च अपव्यवस्थम् // 106 / / व्याख्या-ननु महेन्द्रप्राप्त्यैव कृतार्थता नलप्रार्थनया कि दुःखायसे इत्यत्राऽऽह -- आकीटमिति / आकीटं = हीनेष कीटात् आरभ्य, आकैटभरि = उत्तमेष-कैटभवैरिणं विष्णम अभिव्याप्य / स्वाऽभीष्टलाभात = निजाऽभीप्सितप्राप्तेः, कृतकृत्यभावः = कृतार्थत्वं, तुल्यः = समानः / एवं च ममाऽपि अभीष्टनललाभात्कृतकृत्यता नेन्द्रलाभादिति भावः / अत्र हेतुमाह-भिन्नस्पृहाणामपीति / भिन्नस्पृहाणां = भिन्नरुचीनां जनानाम्, अर्थम् अर्थम् प्रति = प्रत्यर्थ, द्विष्टत्वं = द्वेषविषयत्वम्, इष्टत्वं च = इच्छाविषयत्वं च, अपव्यवस्थंनियतव्यवस्थारहितम्, तस्मादिन्द्रोऽपि मया नेष्यत इति भाव / / 106 // अनुवादः- कीड़ेसे लेकर भगवान् विष्णुतक अपने अभीष्ट पदार्थकी प्राप्तिसे कृताऽर्थता समान है / भिन्न-भिन्न अभिलाषवालोंका पदार्थोंमें द्वेष और इच्छाकी नियत ( खास ) व्यवस्था नहीं है // 106 // टिप्पणी-आकीटं = कीटात् आरभ्य, “आङ मर्यादाभिविध्योः" इस सूत्रसे अभिविधिमें अव्ययीभाव समास / आकैटभवैरि = कैटभस्य वैरी ( 10 त० ) / कैटभवैरिणम् अभिव्याप्य, पूर्वसूत्रसे अव्ययीभाव / स्वाऽभीष्टलाभात् = स्वस्य अभीष्टं ( 10 त० ), तस्य लाभः, तस्मात् (ष० त०)। कृतकृत्यभावः = कृतं कृत्यं येन सः ( बहु० ), तस्य भावः ( ष० त० ) / मुझे अभीष्ट नलके लाभसे कृतकृत्यता है इन्द्रके लाभसे नहीं, यह तात्पर्य है। भिन्नस्पृहाणां = भिन्ना स्पृहा येषां ते भिन्नस्पृहाः, तेषाम् ( बहु० ) / अपव्यवस्थम् = अपगता व्यवस्था यस्मात् तत् ( बहु० ) / सबके लिए सभी पदार्थोंमें द्वेष और इच्छाकी कोई नियत व्यवस्था नहीं है इस कारण मैं इन्द्रमें इच्छा नहीं करती हूँ, यह तात्पर्य हैं / / 106 // अग्नाऽध्वजापन्निभृताऽऽपबन्धु बन्धुर्यदि स्यात् प्रतिबन्धुमर्हः / जोषं जनः कार्यविदस्तु वस्तु प्रच्छया निजेच्छा पदवों मुदस्तु // 10 // ___ अन्वयः-अग्राऽध्वजाग्रन्निभृताऽऽपदन्धुं प्रतिबन्धुम् अर्हः बन्धुः स्यात् यदि, स जनः कार्यवित् जोषम् अस्तु / मुदः पदवीं तु निजेच्छा एव प्रच्छया, वस्तु / / 107 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy