SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः व्याख्या-क्वचित् = कुत्रचित् देशे, नार्यः = स्त्रियः, पुरः स्थितस्य = पुरतोविद्यमानस्य, अस्य =नलस्य, अदृश्येषु = अदर्शनीयेषु, भूषारत्नेषु - भूषणमणिषु, निजानि = स्वकीयानि, प्रतिबिम्बितानि = प्रतिबिम्बानि, व्योमनि = आकाशे, विस्मित्य विस्मित्य = भूयो भूयो विस्मिता भूत्वा, सहस्रकृत्वः = सहस्रवारम्, अपश्यन् = व्यलोकयन् // 41 // अनुवाद:-किसी स्थानमें स्त्रियोंने सामने रहे हुए नलके अदृश्य भूषणोंके रत्नोंमें अपने प्रतिबिम्बों को आकाशमें बारम्बार आश्चर्य मानकर हजारों वार देखा // 41 // टिप्पणी–अदृश्येषु-न दृश्यानि, तेषु ( नत्र 0 ) / भूषारत्नेषु = भूषाणां, रत्नानि तेषु (ष० त०) / विस्मित्य-वि+स्मिङ् + क्त्वा (ल्यप्०)। सहस्रकृत्वः= सहस्र शब्दसे “संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्” इस सूत्रसे कृत्वसुच् प्रत्यय ( अव्यय० ) / अपश्यन् = दृश् + लङ् + झिः / इस पद्यमें आधारके बिना प्रतिबिम्बको देखनेकी उक्तिसे अकारणमें कार्यकी उत्पत्ति होनेसे विभावना अलङ्कार है // 41 // तस्मिन् विषज्याऽर्धपथान्निवृत्तं तदङ्गरागच्छुरितं निरीक्ष्य / विस्मरतामापुरनुस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः // 42 // अन्वयः-इन्दुमुख्यः मिथः क्षिप्तं तस्मिन् विषज्य अर्धपथात् निवृत्तं तदंङ्गरागच्छरितं कन्दुकं निरीक्ष्य अनुस्मरन्त्यः विस्मेरताम् आपुः // 42 // __व्याख्या-इन्दुमुख्यः = चन्द्रवदनाः स्त्रियः, मिथः परस्परं, क्षिप्तं = प्रेरितं, किन्तु तस्मिन्=नले, विषज्य संघट्य, अर्धपथात् =अर्धमार्गात्, निवृत्तं प्रत्यागच्छन्त, तदङ्गरागच्छुरितं = नलाऽङ्गरागरुषितं, कन्दुकं = गेन्दुक, निरीक्ष्य = दृष्ट्वा, अनुस्मरन्त्यः = अनुसन्दधानाः, कुत एतत् इति शेषः / विस्मेरताम् = अतिविस्मयशीलताम्, आपुः = प्रापुः // 42 // ____ अनुवादः-सुन्दरियाँ परस्परमें फेंके गये परन्तु नलमें ठोकर खाकर आधे मार्गसे लौटे हुए नलके अङ्गके चन्दन आदि लेपन द्रव्यसे सम्बद्ध गेंदको देखकर (किसका अङ्गराग इसमें लगा तथा आधे मार्गसे कैसे लौटा ? ) ऐसा अनुसन्धान करती हुई अत्यन्त आश्चर्ययुक्त हो गयीं // 42 // टिप्पणी - इन्दुमुख्यः = इन्दुरिव मुखं यासां ताः (बहु०) / विपज्य=वि+ सञ्ज+क्त्वा ( ल्यप् ) / अर्धपथात् = अर्धश्चाऽसौ पन्थाः, अर्धपथः, तस्मात् (कर्म०), "ऋक्पूरब्धःपथामानक्षे” इससे समासाऽन्त अप्रत्यय / तदङ्ग
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy