SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 180 नैषधीयचरितं महाकाव्यम् अन्वयः-स बलाऽरिः तदानी नलस्य ईदशानि गदितानि आकलय्य स्मयमानः स्वाऽनुगाऽऽननविलोकनलोलः ( सन् ) किमपि शंसति स्म / / व्याख्या-सः प्रसिद्धः, बलाऽरि:-बलाऽरातिः, इन्द्र इत्यर्थः / तदानीं = तस्मिन् समये, नलस्य = नैषधस्य, ईदृशानि = एतादृशानि, गदितानि= उक्तानि, वाक्यानीति भावः / आकलय्य =आकर्य, स्मयमानः- मन्दं हसन्, स्वाऽनुगाऽऽननविलोकनलोल:=निजाऽनुचरमुखनिरीक्षणचञ्चलः सन्, किमपि= किञ्चिद्वाक्यं, वक्ष्यमाणप्रकारमिति शेषः / शंसति स्म=बभाषे / * अनुवाद-प्रसिद्ध देवराज इन्द्र उस समय नलके ऐसे वाक्योंको सुनकर मन्दहास्य कर अपने अनुचर यम आदि देवताओंके मुखोंको देखनेमें चञ्चल होते हुए बोले। टिप्पणी-बलाऽरि:= बलस्य अरिः (10 त० ) / स्मयमानः स्मयत इति, स्मिङ् + लट् ( शानच् )+सु / स्वाऽनुगाऽऽननविलोकनलोल:= स्वस्य अनुगाः (10 त० ), तेषाम् आननानि (प० त०), तेषां विलोकनं (प० त०), तस्मिन् लोलः ( स० त० ) // 116 // नाऽभ्यधायि नृपते ! भवतेदं रोहिणीरमणवंशमवेन / लज्जते न रसना तव वाम्यादथिषु स्वयमुरीकृतकाम्या ? // 117 // अन्वयः-हे नृपते ! रोहिणीरमणवंशभवेन भवता इदं न अभ्यधायि / अथिषु स्वयम् उरीकृतकाम्या तव रसना वाम्यात् न लज्जते ? व्याख्या-हे नृपते हे राजन् ! रोहिपीरमणवंशभवेन =चन्द्रकुलोत्पन्नेन, भवता त्वया, इदम् =एतत्, “सेयमुच्चतरता" (5-104 ) इत्यत आरम्य “कुण्डिनेन्द्रसुतया" (5-114 ) इत्यादिश्लोकपर्यन्तं निषेधवाक्यकदम्बमिति भावः। न अभ्यधायिन अभिहितं, किन्तु चन्द्रवंशाऽनुत्पन्नेन अभिहितमिति भावः / अत्र हेतुमाह- लज्जत. इति / अथिषु-याचकेषु, अस्मासु विषये, स्वयम् आत्मना एव, उरीकृतकाम्या=अङ्गीकृतेच्छा, तव=भवतः, रसना=जिह्वा, वाम्यात् प्रातिकूल्यात्, न लज्जतेनो जिह्रति ? ततस्त्वं न चन्द्रवंशोत्पन्न इव प्रतिभासीति भावः / अनुवादहे राजन् ! चन्द्रवंशमें उत्पन्न आपने यह नहीं कहा है। याचना करनेवालों में स्वयं उनकी इच्छा पूर्ण करने के लिए स्वीकार करनेवाले आपकी जिह्वा प्रतिकूलतासे लज्जित नहीं होती है ?
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy