SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पचमः सर्गः जीविताऽवधि किमप्यधिकं वा यन्मनीषितमितो नरसिम्भाव। .. तेन वश्चरणमर्चतु सोऽयं त वस्तु पुनरस्तु किमोहन // 6 // अन्वयः-इतो नरडिम्भात् जीविताऽवधि, ततः अधिकं वा किमपि मनी. षितं यत्, वस्तु, सोऽयं तेन वः चरणम् अर्चतु, ईदृक् पुनः किम् अस्तु ! जीविताऽवधि = जीवनपर्यन्तं, ततः जीवितात, अधिकम् =अतिरिक्तं वा, किमपि=किञ्चिदपि, मनीषितम् = अभीप्सितं, यत्, वस्तुपदाऽर्थः, सः= तादृशः, अयम् =एषः, नरडिम्भ इति भावः, तेन-वस्तुना, वः=युष्माकं. चरणंपादम्, अर्चतु-पूजयतु, ईदृक् = एतादृशं, पुनः किम्-वस्तु, अस्तु = स्यात् ? ब्रूत =कथयत / ___ अनुवाद-इस मनुष्य बालकसे जीवनपर्यन्त अथवा उससे भी अधिक कोई अभीष्ट जो वस्तु हो वह ( मैं ) उससे आपके चरणकी पूजा करूं, ऐसी वस्तु क्या है ? कहिए। टिप्पणी- इतः = इदम् + असि ( तसिल ) / नरडिम्भात् नरस्य डिम्भः, तस्मात् (प० त०)। जीविताऽवधि जीवितम् अवधिः (सीमा) यस्य तत् , (बहु० ) / ततः तद् + सि ( तसिल)। मनीषितं मनीषा+इतन् + . सु / अर्चतु = अर्च+लोट् + तिप् / ब्रूत =+लोट् +थ // 97 // . एवमुक्तवति मुक्तविशक्के वीरसेनतनये विनयेन / वक्रमावविषमामय शक्रः कार्यकैतवगुगिरमूचे // 18 // अन्वयः-एवं वीरसेनतनये विनयेन मुक्तविशङ्के उक्तवति ( सति ) अब कार्यकतवगुरुः शक्रः वक्रभावविषमां गिरम् ऊचे। .....ग्याल्या-एवम् = इत्थं, वीरसेनतनये = वीरसेनपुत्रे नंले, विनयेन= नम्रतया, अकपटेनेति भावः / मुक्तविशके शखारहिते, उक्तवति=कथितवति सति, अथ =नलभाषणाऽनन्तरं, कार्यकतवगुरुः कर्तव्यप्रयोजनकपटोपदेशकः, शक्रः इन्द्रः, वक्रभावविषमां-कुटिलत्वप्रतिकूला, गिरं वाणीम, ऊचेउवाच / - अनुवाद-इस प्रकार वीरसेनके पुत्र नलके नम्रतापूर्वक शङ्कारहित होकर कहनेपर कार्योमें कपटके उपदेशक इन्द्रने कुटिलतासे प्रतिकूल वचन कहा /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy