________________ नैषधीयचरितं महाकाव्यम् विरहतप्ततवङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः। किमपनेतुमचेष्टत कि परामवितुमेहत तद्दवयं पृथुम् // 32 // अन्वयः-विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः पृथु तद्दवथुम् अपनेतुम् अचेष्टत किम् ? पराभवितुम् ऐहत किम् ? ग्याल्या-विरहतप्ततदङ्गनिवेशिता= वियोगसन्तप्तदमयन्तीशरीरनिहिता, कमलिनी पद्मलता, निमिषद्दलमुष्टिभिः आनमत्पत्त्रमुष्टिबन्धः ( करणः ), पृथं महान्तं, तद्दवथु - दमयन्तीसन्तापम्, अपनेतुं दूरीकर्तुम्, अचेष्टत किम् = उद्योगं चकार किम् ? पराभवितुं तिरस्कर्तुम्, ऐहत किम् = अचेष्टत किम् ? वस्तुतस्तु न किञ्चित्कर्तुं शशाक, प्रत्युत स्वयमेव दग्धेत्यर्थः / ____ अनुवाद-वियोगसे सन्तप्त दमयन्तीके शरीरमें रक्खी गई कमलिनीने सङ्कुचितपत्ररूप मुक्केसे बढ़े हुए उनके सन्तापको हटानेकी वा तिरस्कार करनेकी इच्छा की? टिप्पणी-विरहतप्ततदङ्गनिवेशिता=विरहेण तप्तम् (त० त०), तस्या अङ्गम् (10 त०), विरहतप्तं च तदङ्गम् (क० धा०), तस्मिन् निवेशिता ( स० त• ) / निमिषद्दलमुष्टिभिः=निमिषन्ति च तानि दलानि ( क० धा० ), निमिषद्दलानि एव मुष्टयः, तैः ( रूपक० ) / तद्दवथु-तस्या दवथुः, तम् (10 त० ) / अपनेतुम् =अप+नी+तुमुन् / अचेष्टत-चेष्ट .. लङ+ त / पराभवितुं=परा+भू+तुमुन् / ऐहत= ईह + लङ्+त। इस पद्यमें विषय और उत्प्रेक्षा अलङ्कारका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 32 // इयमनङ्गशराबलिपन्नगक्षतविसारिवियोगविषाऽवशा / शशिकलेव खराऽशकरादिता करणनीरनिधौ निवधौ न कम् ? // 33 // अन्वयः-इयम् अनङ्गशरावलिपनलक्षावसारिवियोगविषाऽवशा खरांऽशुकरादिता शशिकला इव के करुणनीरनिधो न निदधौ ? ध्याल्या-इयं-दमयन्ती, अनङ्गशराऽऽवलिपन्नगक्षतविसारिवियोगविषाऽवशा=कामबाणपङ्क्तिसर्पदंशनव्यापिविरहगरलविह्वला सती, खरांऽशुकराऽदिता=सूर्यकिरणपीडिता, शशिकला इव चन्द्रकला इव, कंजनं, करुणनीरनिधो=शोकसमुद्रे, न निदधौनो निहितवती, सर्वमपि निदधावे. वेति भाव. /