________________ 12 मेषधीयचरितं महाकाग्यम् ( टु) मस्जो+लट् +तिप् / इस पद्यमें आतिधारामें यमस्वसाका आरोप होनेसे रूपक अलङ्कार है // 13 // सन्याऽपसव्यत्यजनाद् द्विरुक्तः पञ्चेषुबाणः पृथगजितासु / वशासु शेषा खलु तद्दशा या तया नमः पुष्प्यतु कोरकेण // 114 // अन्वयः-सव्याऽपसव्यत्यजनात् द्विरुक्तः पञ्चेषुबाणः पृथक् अजितासु दशासु शेषा या तद्दशा तया कोरकेण नभः पुष्प्यतु // 114 // व्याख्या-दशमी कामदशा तु कदाऽपि मा भूदिति आह-सव्येति / (हे भैमि ! ) सव्याऽपसव्यत्यजनात् =वामदक्षिणहस्तमोचनात्, द्विः द्विवारम्, उक्तः प्रतिपादितः, द्विगुणीकृतः, पञ्चेषुबाणः कामशरैः, दशभिरिति भावः / पृथक्-प्रत्येकम्, अजितासु-उत्पादितासु, दशासुअवस्थासु, शेषाअव. शिष्टा, या तद्दशा=दशमावस्था, तया दशमाऽवस्थया, कोरकेण=कलिकया, नभः= आकाशं, पुष्प्यतु=पुष्पितम् अस्तु, नलस्य सा दशमी ( मरणरूपा) अवस्था नभःपुष्पकल्पा अस्तु, कदापि मा भूदिति भावः / त्वत्प्राप्तेरिति शेषः // 114 // ___ अनुवाद-(हे राजकुमारी ! ) बायें और दाहिने हाथोंसे छोड़नेसे कामदेवके दुगुने (दश) बाणोंसे अलग-अलग उत्पन्न अवस्थाओंमें अवशिष्ट जो दशवीं अवस्था ( मरणरूपवाली ) है, उस अवस्थारूप कलीसे आकाश पुष्पित हो, अर्थात् कदाऽपि न हो / 114 // टिप्पणी-सव्याऽपसव्यत्यजनात् =सव्यश्च अपसव्यश्च सव्याऽपसन्यौ (द्वन्द्वः ), ताभ्यां त्यजनं, तस्मात् (तृ० त०)। द्वि:=द्वि शब्दसे 'द्वित्रिचतुभ्यः सुच्" इस सूत्रसे सुच् प्रत्यय / पञ्चेषुबाणः- पञ्च इषवो यस्य सः ( बहु०), पञ्चेषोः बाणाः, तैः ( ष० त० ) / तद्दशा=सा चाऽसो दशाः (क० धा० ), मरणरूप दशा अशुभ होनेसे उसका यद् और तद् शब्दसे निर्देश किया गया है। तया कोरकेण-उस दशमी अवस्था में कोरकका आरोप होनेसे रूपक अलज़ार है / 'कलिका कोरकः पुमान्" इत्यमरः / पुष्प्यतु = "पुष्प विकसने" धातुसे लोट्+तिप् // 114 // धन्याऽसि बभि ! गुणरुवारर्यया समाकृष्यत नषधोऽपि। . इतः स्तुतिः का खलु चन्द्रिकाया सदग्धिमप्युत्तरलीकरोति // 115 // अन्वयः-हे वैदर्भि ! धन्या असि, यया. उदारैः गुणैः नैषधोऽपि समाकृष्यत / चन्द्रिकायाः यत् अब्धिम् अपि उत्तरलीकरोति, इतः का स्तुतिः खलु // 115 //