SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 56 पषीयचरितं महाकाव्यम् मेरा मन नलकी कामना करता है ( 3-67 ) ऐसा दो श्लोकोंका अर्थ क्या मैंने नहीं जाना ? ( जाना है ) // 69 / / ___ टिप्पणी-श्लेषकवेः = श्लेषेण कवेः ( तृ० त०)। पाणिग्रहणे =पाणे: ग्रहणं, तस्मिन् ( शेषषष्ठी तत्पु० ) / कामयते =कमु+णिङ् + लट् + त / श्लोकद्वयाऽर्थः =श्लोकयोः द्वयं (ष० त०), तस्य अर्थः (10 त० ) / सुधिया सुष्ठ ध्यायतीति सुधीः, तेन, सु-उपसर्गपूर्वक "ध्ये चिन्तायाम्" इस धातुसे क्विप् प्रत्यय और सम्प्रसारण ( उपपद० ) / आश्लेषि=आङ्+श्लिष+ लुङ् ( कर्ममें )+त // 69 // स्वच्चेतसः स्थर्यविपर्ययं तु सम्भाव्य भाव्यस्मि तदज्ञ एव / लक्ष्ये हि बालाहदि लोलशीले दराऽपराद्धेषुरपि स्मरः स्यात् // 7 // अन्वयः-तु त्वच्चेतसः स्थैर्यविपर्ययं सम्भाव्य तदज्ञ एव भावी अस्मि हि लोलशीले बालाहृदि लक्ष्ये स्मरः अपि दराऽपराद्धेषुः स्यात् / / 70 / / व्याख्या-तु-किन्तु, 'नृपेण पाणिग्रहणे स्पृहा", "मम मनो नलं कामयते' इति ज्ञानेऽपीति भावः / त्वच्चेतसः = भवन्मनसः, स्पैर्यविपर्ययम् =अस्थिरत्वं, सम्भाव्य=आशङ्कय, तदज्ञ एव=श्लोकद्वयाऽर्थाऽनभिज्ञ एव, भावी-भविष्यन्, अस्मि=भवामि / हि=यतः, लोलशीले = चञ्चलस्वभावे, बालाहदि-तरुणीचित्ते, लक्ष्ये =शरव्ये, वेध्ये विषय इति भावः / स्मरोऽपि=कामदेवोऽपि, देवादिविजेता अपीति तात्पर्यम् / दराऽपराद्धेषु:= ईषच्च्युतसायकः, स्यात् भवेद, स्मरसदृशः कुशलधानुष्कोऽपि चञ्चललक्ष्ये अपराद्धपृषत्कः स्यादिति सम्भाव्यत इति भावः // 70 // अनुवाद-परन्तु "राजाके साथ पाणिग्रहणमें स्पृहा", "मेरा चित्त नलकी कामना करता है" ऐसे दो श्लोकोंका अर्थ जाननेपर भी आपके चित्तकी अस्थिरताकी आशङ्का करके मैं उस अर्थ में अनजान ही होनेवाला हूँ। क्योंकि चञ्चल स्वभाववाली तरुणीके चित्तरूप लक्ष्य में कामदेव भी कुछ निशाना चूकनेवाला होगा // 7 // टिप्पणी-त्वच्चेतसः तव चेतः, तस्य (प० त०), स्थैर्यविपर्ययं= स्थैर्यस्य विपर्ययः, तम् (10 त० ) / सम्भाव्य= सम् + भू + णिच् + क्त्वा (ल्यप् ) / तदज्ञः तस्मिन् अज्ञः ( स० त०)। भावी भविष्यतीति, "भविष्यति गम्यादयः" इससे साधुः, भू+णिनि+सु / लोलशीले=लोलं शीलं यस्य तद, तस्मिन् ( बहु० ) / बालाहृदि-बालाया हद, तस्मिन् (...
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy