________________ 38 नैषधीयचरितं महाकाव्यम् वल्ल्या=आम्रश्रेण्या, मधुपाऽनुविद्धं = भ्रमरकृतं, सौभाग्यम् इव सौन्दर्यम् इव, नैषधाऽनूढतया = नलेन अपरिणीततया, दुरापं=दुष्प्राप्यम्, नलपरिग्रहाय भवत्या यत्नः कार्य इति भावः // 46 // / ___ अनुवाद-मुझसे कहे गये प्रियवाक्योंसे उत्पन्न सुख, आपसे वसन्त ऋतुको अप्राप्त आम्रोंकी श्रेणीसे भौंरेसे किये गये सौन्दर्यकी तरह नलके साथ विवाह न होमेसे दुष्प्राप्य है // 46 // - टिप्पणी-अस्मत्कृतचाटुजन्म= अस्माभिः कृतानि (तृ० त०), अस्मत्कृतानि च तानि चाटूनि (क० धा० ), तेभ्यो जन्म यस्य तत् ( व्यधिकरणबहु० ) / अप्राप्तवसन्तया=न प्राप्तः अप्राप्तः (न०)। अप्राप्तो वसन्तो यया सा अप्राप्तवसन्ता, तया ( बहु० ) / रसालवल्ल्या=रसालानां वल्ली, तया (ष० त०)। मधुपाऽनुविद्धं-मधु पिबन्तीति मधुपाः, मधु+पा+कः / मधुपैः अनुविद्धम् (तृ० त०)। नैषधाऽनूढ तया=निषधानामयं नैषधः, निषध+ अण् / अनूढया भावः अनूढता, अनूढा + तल् +टाप् / "सामान्ये नपुंसकम्" इससे नपुंसकता। नैषधेन अनूढता, तया ( तृ० त०) / दुरापं-दुःखेन आप्तुं शक्यम्, दुर्+आप+खल / इस पद्यमें उपमा अलङ्कार है / / 46 // तस्यैव वा यास्यसि किन हस्तं दृष्टं विधेः केन मनः प्रविश्य / अजातपाणिग्रहणाऽसि तावद्रपस्वरूपाऽतिशयाऽऽश्रयश्च // 47 // अन्वयः-वा तस्य एव हस्तं किं न यास्यसि ? केन विधेः मन एव प्रविश्य दृष्टम् ? अजातपाणिग्रहणा असि, रूपस्वरूपाऽतिशयाऽऽश्रयश्च (असि ) // 47 // व्याख्या-अथ हंसो भैम्याः पुनर्नलप्राप्त्याशां जनयति-तस्यैवेति / वाअथवा, तस्य एव=नलस्य एव, हस्तं पाणि, किं, न यास्यसिन प्राप्स्यति ? यास्यस्येवेत्यर्थः / केन=जनेन, विधेः = ब्रह्मणः, मन एव=चित्तम् एक,. प्रविश्य प्रवेशं कृत्वा, दृष्टम् =अवलोकितम्, विध्यनुकूलताऽपि सम्भावितेति भावः / यतः-अजातपाणिग्रहणा - अकृतविवाहा, असि=वर्तसे, रूपस्वरूपा. ऽतिशयाऽऽश्रयश्च - सौन्दर्यशीलप्रकर्षाऽऽधारश्च, असि=विद्यसे, योग्यगुणाश्रयत्वाच्च नलहस्तमेव गमिष्यतीति भावः / / 47 // अनुवाद-आप नलके ही हाथों में क्यों नहीं पड़ेंगी? ( पड़ेंगी ही ) / किसने ब्रह्माके हृदय में प्रवेश कर देखा है ? क्योंकि आपका विवाह भी नहीं हुआ है और आप सौन्दर्य और शीलके प्रकर्षकी आधार भी हैं // 47 // टिप्पणी-यास्यसि या+लट् + सिप् / अजातपाणिग्रहणा=न जातम्