SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ 68 . नषषीयचरितं महाकाव्यन् टिप्पणी-क्षितीशः - क्षितेः ईशः (10 तत्पु० ) / दिगन्तरेभ्यः = दिशामन्तराणि तेभ्यः (10 तत्पु० ) पृथिवीपतीनाम् = पृथिव्याः पतयः तेषां पृथिवीपतीनाम् (10 तत्पु०)। आकर्षकातूहलसिद्धविद्याम् = आकर्षस्य कौतूहलं तस्मिन् सिद्धविद्याम् (10 स० तत्पु० ) मध्येमहाराजकम् - राज्ञां समूहः राजकम् महत् च तद् राजकम् महाराजकम् महाराजकस्य मध्ये मध्ये महाराजकम् "पारे मध्येषष्ठ्या वा" इति भीमस्य राजकमित्यत्र राज्ञां समूह इत्यर्थे = गोत्रीक्षेत्यादिना वुन् प्रत्ययः / भाव:-. . भूभुजां दूरदूरात् समाकर्षणे सिद्धविद्यामयी तां सुता भूपतिः / राजकानां सभायां तदानीं सखी संयुतामाजुहाबोचितां भूषिताम् / / अनुवाद:-सरस्वती के सत्कार के बाद महाराज भीम ने अनेक दिशाबों से राजाओं के समाकर्ष कार्य करने के लिये सिद्ध मन्त्रस्वरूपिणी अपनी पुत्री दमयन्ती को उस महती राजसमूह की सभा में बुलवाया // 92 // दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु / स्वाङ्गेषु रूपोत्थमयाद्भुताब्धिमुद्वेलयन्तीमवलोककानाम् // 93 // अन्वयः-नासीरचरीषु दासीषु वीक्षितासु जातं क्रमेण आलिषु वीक्षितामु स्फीतम् अथ रूपोत्थम् अवलोककानाम् अद्भुताब्धिम् स्वाङ्गेषु वीक्षितेषु उद्वेल्ल. यन्तीम् / व्याल्या-षोडशभिः श्लोकः दमयन्ती वर्णयति 'राजराजिः भैमी पपी' इति कर्तृ क्रिया पदे 108 तमे श्लोके विद्यते। कीदृशी दमयन्तीम् इत्याह-नासीरचरीषु = अग्रगामिनीषु, दासीषु = अनुचरीषु, वीक्षितासु = अवलोकितासु जातम् उत्पन्नम्, क्रमेण = क्रमशः आलीषु वाक्षितासु, स्फीतम् = समेधितम्, अथ - अनन्तरम् रूपोत्थम् =विलक्षणसौन्दर्योत्थम् अबलोककानाम् = दर्शकाणाम् अद्भुतान्धिम् =आश्चर्यसागरम्, स्वाङ्गेषु = स्वावयवेषु, वीक्षितेषु उद्वेल्लयन्तीम् - अतिक्रान्तवेलं कुर्वाणाम् / ... टिप्पणी-नासीरपरीषु- नासीरे चरन्तीति नासीरचयः तासु नासीरचरीषु सोपपदात् चरतेः 'चरेष्टः' इति र प्रत्ययः ‘टिड्ढे'त्यादिना डीप ( उपपदसमासः)। रूपोत्पम् रूपादुत्तिष्ठतीति रूपोत्थम् आतश्योपसर्गः इति का प्रत्ययः ( उपपदसमासः) अक्लोककानाम् अवपूर्वाद लोके-वुले अद्भुताब्धिम् =अल्
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy