SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः मन्नयः-जात्या च वृत्तेन च भिद्यमानम् श्लोकाचं विश्रान्तिमयीभविष्णु छन्दः पवंद्वयीसन्धिसुचिह्नमध्यं यदीयं भुजद्वन्दम् अभूत् / व्याख्या-जात्या = मात्रावृत्तरूपेण च, वृत्तरूपेणवाणिकवृत्तरूपेण च, भिद्यमानम् = भेदमुपगतम्, श्लोकार्धविश्रान्तिमयीभविष्णु = पद्यार्धे विरामरूपतामापनम्, छन्दः तच्छास्त्रम्, पर्वदयीसन्धिसुचिह्नमध्यम् = कूपरभागढयसन्धिव्यक्तपूरकचिह्नम् / यदीयम् यत्सम्बन्धिभुजद्वन्दम् बाहुयुगलम् / अभूदिति शेषः। टिप्पणी-श्लोकार्धविश्रान्तिमयीभविष्णु = श्लोकार्धन विधान्तिः, तन्मयी. भविष्णुः श्लोकस्य अर्धे (ष. तत्पु० 10 तत्पु०, स० तत्पु० ), अतन्मयं तन्मयं भविष्णु इति तन्मयी भविष्णु अभूततद्भावे च्चि प्रत्ययः 'च्ची च' इतीत्वम् / पर्वद्वयीसन्धिसुचिह्नमध्यम्-पर्वणो दयी तस्याः सन्धिः तेन सुचिह्न मध्यं यस्य तत् (10 तत्पु० गर्भो बहुव्रीहि) द्विविधं छन्दः, भुजयुगत्वेन श्लोकार्ध. विश्रान्तिःकूर्परत्वेन परिणतेत्यर्थः / भावः-मात्रिक-वाणिकवृत्त-द्वितयभुजा यदर्धाशम् / कर्पूरभागवितयं परार्धे विश्रमापन्नम् // अनुवाद:--आर्या आदि मात्रिक वाणिक (वर्णसङ्ख्या वाले ) दो भागों में विभक्त छन्द ही जिस वाग् देवी के दोनों भुजाओं के रूप में परिणत हो गये, जिस उभय विध पद्यात्मक भुजदय का कूपर (केहुनी) का दोनों भाग मध्य का विराम स्थान था / / 77 // . असंशयं सा गुणदीर्घभाव कृतां दधाना वितति यदीया। विधायिका शब्दपरम्पराणां किञ्चारचि व्याकरणेन काशी // 78 // मन्वय:-किञ्च गुणदीर्घभावकृतां विवतिम् दधाना शब्दपरम्पराणां विधायिका यदीया काञ्ची व्याकरणेन व्यरचि।। माया-किच= अपि च, गुणदीर्घभावकृताम् = पट्टसूत्रदोपंताविहिताम् अन्यत्र-गुण-दीर्घ-भावप्रत्यय-कृत्प्रत्ययकृताम्, विवर्तितम् = विस्तारम् / दधाना % धारयन्ती, अन्यत्र-लिङ्गविपरिणामेन दधानेन, शब्दपरस्पराणाम् = सिञ्जितसमूहानाम्, अन्यत्र-सुबन्ततिम्न्तरूपाणाम, विधायिका-विधात्री, अन्यत्र विधायकेन / सा=प्रसिद्धा, काञ्ची- कटिसूत्रम्, व्याकरणेन - व्याकरणशास्त्रेण म्यरचि - विहिता / असंशयम् उत्प्रेमायाम् /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy