________________ बशमः सर्गः विचिन्त्य नानाभुवनागतांस्तानमर्त्यसकोत्यंचरित्रगोत्रान् / कथ्याः कथङ्कारममी सुतायामिति व्यषादि क्षितिपेन तेन // 68 // . अन्वयः--तेन क्षितिपेन नानाभुवनागतान् अमर्त्य सङ्घीयचरित्रगोत्रान् . विचिन्त्य अमी सुतायाम् कथङ्कारम् कथ्या इति व्यषादि / व्याल्या तेन क्षितिपेन = राज्ञा भीमेन नानाभुवनागतान् = अनेकलोकागतान्, अमत्यसङ्कीर्त्यचरित्रगोत्रान् मानवमात्राविज्ञाताभिधेयाचारान्, विचिन्त्य -विचार्य, अमी = अनेकलोकागताः, सतायाम् = दमयन्त्याम्, कथङ्कारम् = केन प्रकारेण, कथ्या = परिचाय्या, इति व्यषादि विषण्णम् / टिप्पणी--नानाभवनागतान् नाना भुवनेभ्यः आगतान् (10 तत्पु०)। अमर्त्यसङ्कीयंचरित्रगोत्रान् = मत्येन सङ्कीर्त्यानि मर्त्यसङ्कीर्त्यानि (तृ० तत्पु०) चरित्राणि च गोत्राणि चेति चरित्रगोत्राणि ( द्वन्द्वः ) न मयंसङ्कीयानि चरित्रगोत्राणि, येषां ते तान् तथोक्तान् (ब० व्रीहिः ) / कथङ्कारम् = 'अन्यथैवं कथं सु' इत्यादिना णमुल्, कथं कृत्वा कथङ्कारम् / व्यषादि-भावे लुङ् / भाव:--अविदितचरित्रगोत्रं मानवमात्रेण राजकं न्वतम् / तनुजाय परिचाय्यं कथमिति संज्ञा व्यषादि तत्कालम् // अनुवादः-मानव मात्र से अज्ञात नाम गोत्र वाले अनेक लोक से आये इन राजाओं का परिचय दमयन्ती को कैसे दिया जायगा, ऐसा विचार कर राजा भीम को विषाद हुआ // 68 // श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः। तदाऽऽकुलोऽसौ कुलदेवतस्य स्मृति ततान क्षणमेकतानः // 69 // अन्वया-अथ आकुल: असो तदा श्रद्धालुसङ्कल्पितकल्पनायाम् कल्पद्रुमस्य कुलदेवतस्य रथाङ्गपाणेः स्मृति क्षणम् एकतानः ततान / / व्याख्या-अथ-विषादानन्तरम्, आकुल:- चिन्तितः, असो-भीमः; तदा= तस्मिन् काले, श्रद्धालुसकल्पितकल्पनायाम् = भक्तजनेप्सितसम्पादने कल्पद्रुमस्य = इच्छापूरकस्य, कुलदैवतस्य = कुलदेवस्य, रथाङ्गपाणे:-भगवतों विष्णोः; स्मृतिम्, क्षणम् =किञ्चित्कालम्, एकतानः = एकाग्रः, ततान% चकार। टिप्पणी-तदानीम् = तस्मिन् काले इति तदानीम्, तच्छब्दात् दानी प्रत्ययः 'तदो दानीञ्च' इत्यनेन वालुसल्पितकल्पनायाम् = श्रदालूनां सङ्क