________________ दशमः सर्गः .. . भावः-चिराश्रिताशाञ्चितचेतसां सा सती समासत्तिमुपेत्य सुप्तो। विभज्य दत्वानिजविभ्रमाणि वदान्यता स्वां प्रकटीचकार // अनुवादः-स्वयंवर की पूर्व रात्रि में पतिव्रता शिरोमणि उस दमयन्ती ने स्वप्न में मिथ्या रूप से सन्निहित होकर पृथक् पृथक् सभी राजाओं को जो अपने विभ्रमभ्रान्तिमय विलास का प्रदान किया वह उसने अपने कामुक अथियों के मनोरथ को पूरा कर अपनी वदान्यता दानशीलता को प्रकट किया // 36 // वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीष्वनुभाववत्सु / स्वयंवरस्थानजनाश्रयस्तैदिने परत्रालमकारि वीरैः // 37 // अन्वयः-परत्र दिने वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीषु अनुभाववत्सु, तैः वीरैः स्वयंवरस्थानजनाश्रयः अलम् अकारि / व्याख्या-परत्र = परस्मिन्, दिने = अहनि, वैदर्भदूतानुनयोपहूतः, भीमदूतप्रार्थनोपनीतः, शृङ्गारभङ्गीषु-रतिभावोद्दीपकेषु, अनुभाववत्सु = कटाक्षविले. पादिमत्सु, तैः = समागतः, वीरैः = शूरैः, स्वयंवरस्थानजनाश्रयः स्वयंवरमण्डपः, अलमकारि= अलङ्कतः / टिप्पणी-वैदर्भदूतानुनयोपहूतैः = विदर्भाणां राजा वैदर्भः तस्य दूताः वैदर्भदूताः = तैः अनुनयेन उपहूतः (10 तत्पु० तृतीया तत्पु० ) शृङ्गारभङ्गीषु = शृङ्गारस्य भङ्गयः शृङ्गारभङ्गयः तासु शृङ्गारभङ्गीषु, (10 तत्पु०) अनुभाववत्सु, अनुभावा= रतिस्थायीभावकार्यभूता कटाक्षादयः ते सन्ति येषान्ते तेषु ( मतुप् प्रत्ययः) स्वयंवरस्थानजनाश्रयः = स्वयंवरस्थानमेव जनाश्रयः ( कर्मधारयः ) अलमकारि करोतेः कर्मणि लुङ् / भावा-शृङ्गाराब्धितरङ्गितभावाः दूतैः समानीताः / ____ स्वयंवरस्थलमेत्य स्वे स्वे स्थाने समासीदन् / अनुवादा-दूसरे दिन विदर्भ नरेश के दूतों द्वारा प्रार्थनापूर्वक लाये गये शृङ्गाररस के व्यञ्जक अनेक भाव भङ्गियों युक्त समागत राजवीर स्वयंवर स्थानभूत मण्डप में आकर अपने-अपने स्थानों को अलङ्कृत किये // 37 // भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव / प्रसूनबाणे विबुधाधिनाथस्तेनाथ साशोभि सभा नलेन // 38 // अन्वयः-विवुधाधिनाथः यं वीक्ष्य भूषाभिः उच्चैः संस्कृते अपि प्रसूनबाणे प्राकृतबुद्धिम् एव अकृत, अथ तेन नलेन सा सभा अशोभि /