________________ नैषधीयचरितं महाकाव्यम् अन्वयः-भीमपुरोहितेन मन्त्रः बद्धरक्षं तत् पुरं रक्षः क्व विशति ततः यातुधानः दिक्पतिः जातु तत्र यातुम् उद्यमं न आततान / व्याख्या-भीमपुरोहितेन = विदर्भराजपुरोधसा, मन्त्रः= रक्षोनमन्त्रः, बद्धरक्षम् = कृतरक्षणम्, तत् =कुण्डिनम्, पुरम् = नगरम्, रक्षः = राक्षस, क्व = कुत्र, विशतिप्रविशति, ततः = तस्मात् कारणात्, यातुधाना-नैर्ऋतः, दिक्पतिः - दिगीशः, जातु = कदाचित्, तत्र = स्वयंवरे, यातुम् = गन्तुम्; उद्यमम् = प्रयासम्, न आततान = न कृतवान् / टिप्पणी-भीमपुरोहितेन = भीमस्य पुरोहितः तेन तथोक्तेन (10 तत्पु० ) बद्धरक्षम् = बद्धा रक्षा यस्य तम् बद्धरक्षम्, (बहुव्री० ) यातुधानः = 'यातुधानः पुण्यजन: नैऋतो जातु रक्षसी' इत्यमरः / ___ भावः-पुरोधसा भीमनृपस्य तत्पुरं रक्षोघ्नमन्त्रैरभिरक्षितं तका / समागमन्नव निशाचराः परे न यातुधानो दिगिनस्ततस्ततः / / - अनुवादा-निषधराज के पुरोहित से रक्षोघ्न मन्त्रों द्वारा सुरक्षित उस कुण्डिनपुर में राक्षस कैसे जा सकते थे। इसलिये नैर्ऋत्य कोण के दिक्पाल उस स्वयंवर में नहीं जा सके // 11 // कर्तुं शशाकाभिमुखं न भैम्या मृगं दृगन्भोरुहनिजितं यत् / तस्या विवाहाय ययौ विदर्भान् तद्वाहनस्तेन न गन्धवाहः // 12 // अन्वयः-गन्धवाहः भैम्या दृगम्भोरुहनिजितं मृगम् अभिमुखं कर्तु न शशाक यत् तेन तद्वाहनः सः तस्या विवाहाय विदर्भान् न ययो। व्याल्या-गन्धवाहः = वायुः, भम्या = दमयन्त्याः, दृगम्भोरुहनिजितम् = नयननलिनपराजितम्, 'मृगम् = स्ववाहनभूतं हरिणम्, अभिमुखम् = सम्मुखम्, कर्तुम् = विधातुम्, न शशाक = न समर्थोऽभूत्, यत् = यतः, तेन = अवाहनत्वेन, तद्वाहनः = मृगवाहनः, सः= गन्धवाहः, तस्याः = दमयन्त्याः , विवाहाय = विवाहं कर्तुम् विदर्भान् = निषधान्, न ययौ = न जगाम / टिप्पणी-दृगम्भोरुहनिजितम् = दृशावेवाम्भोरुहे ताभ्यां निजितम् 'कर्तृकरणे कृता बहुलम्' इति तृतीय तत्पुरुषः / तद्वाहनः स एव वाहनो यस्य सः तथोक्तः (ब० व्रीहिः)। भावः-भैम्या निजाक्षान्जजितं स्ववाहं मृगं शशाकाभिमुखं न नेतुम् / अतो विवाहायं गतो न तस्याः स गन्धवाहो दिगिनो विदर्भान् //