________________ ज्ञान॥२ . " : २.मरनाष्टक प्रत्याहत्येन्द्रियव्यूह समाधाय मनो निजम् / दधचिन्मात्रविश्रान्ति मन इत्यभिधियते // 1 // यस्य ज्ञानसुधासिन्धौ परब्रह्मणि मग्नता / विषयान्तरसंचारस्तस्य हालाहलोपमः // 2 // खभावसुखमनस्य जगत्तत्वावलोकिनः / कर्तृत्वं नान्यभावानां साक्षित्वमवशिष्यते // 3 // परब्रह्मणि मनस्य श्लथा पौद्गलिकी कथा / क्वामी चामीकरोन्मादाः स्फाराः दारादराः क्व च // 4 तेजोलेश्याविवृद्धिर्या साधोः पर्यायवृद्धितः / भाषिता भगवत्यादौ सेत्थंभूतस्य युज्यते // 5 // ज्ञानमग्नस्य यच्छम तद्वक्तुं नैव शक्यते / नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनद्रवैः // 6 // शमशैत्यपुषो यस्य विग्रुषोऽपि महाकथाः / किं स्तुमो ज्ञानपीयूषे तत्र सर्वाङ्गममताम् // 7 // यस्य दृष्टिः कृपावृष्टिगिरः शमसुधाकरः / तस्मै नमः शुभज्ञानध्यानमग्राय योगिने // 8 // 3 स्थिरताष्टक वत्स! किं चश्चलखान्तो भ्रान्त्वा भ्रान्त्वा विषीदसि / निधि स्वसन्निधावेव स्थिरता दर्शयिष्यति // 1 // ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः /