________________ सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त कर्ष पाण्युपकर्ष धाना गृह्णाति / कर्ष इति शप्निर्देशाद् भौवादिकस्य कर्षन्ति शाखां ग्राममिति द्विकर्मकस्याकर्षणार्थस्य ग्रहणं न तु तौदादिकस्य पञ्चभिईलैः कृषतीति विलेखनार्थस्य / तेन भूमावुपकृष्य तिलान् वपति हलेनोपकृष्य वपतीत्यत्र न भवति / अन्ये खनयोरर्थभेदमप्रतिपद्यमानास्तौदादिकादपीच्छन्ति / उपेति किम् / पार्चन निपीड्य तिष्ठति / अन्ये तूपपूर्वादेव पीडेरिच्छन्ति, रुधकर्षाभ्यां तु कामचारेण / तेन व्रजरोधं गाः स्थापयति / हस्तरोधं दधद्धनुः। व्रजेन रोधम् / हस्तेन रोधम् / उपपूर्वादपि / व्रजोपरोधं गाः स्थापयति / अन्योपसर्गपूर्वादपि / वजानुरोधं गाः स्थापयति / एवं पाणिकर्ष धाना गृह्णाति / पाणौ कर्ष पाणिना कर्षमित्याद्यपि भवति / / 1221 प्रमाणसमासत्त्योः // 5 // 4 // 76 // आयाममानं प्रमाणं समासत्तिः संरम्भपूर्वकः संनिकर्षस्तयोर्गम्यमानयोस्तृतीयान्तेन सप्तम्यन्तेन च योगे धातोस्तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः संबन्धे सति णम् वा स्यात् / यङ्गुलेनोत्कर्ष व्यङ्गुलोत्कर्ष गण्डिकाश्छिनत्ति / ब्यङ्गुले उत्कर्ष यङ्गुलोत्कर्ष गण्डिकाश्छिनत्ति / समासत्तौ-केशैहिं केशग्राहं युद्धयन्ते / केशेषु ग्राहं केशग्राहं युद्धयन्ते / एवं हस्तग्राहम् / अस्यपनोदं युद्धयन्ते / युद्धसंरम्भादत्यन्तं संनिकृष्य युद्धयन्त इत्यर्थः / पक्षे यङ्गुलेनोत्कृष्य यङ्गुले उत्कृष्य गण्डिकाष्छिनत्ति / केशहीवा केशेषु गृहीत्वा युद्धयन्ते / 1222 पञ्चम्या त्वरायाम् // 1 / 4 / 77 // खरा परीप्सा औत्सुक्यमिति यावत् / तस्यां गम्यमानायां पञ्चम्यन्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः संबन्धे सति णम् वा स्यात् / शय्याया उत्थायं शय्योत्थायं धावति / एवं नाम खरते यदावश्यकादिकमपि नापेक्षते / स्तनरन्ध्रादपकर्ष स्तनरन्ध्रापकर्ष पयः पिबति / एवं नाम खरते यत्पात्रे दोहमप्यप्रतीक्ष्य मुख एव पयः पिवति इत्यर्थः / पक्षे शय्याया उत्थाय धावति / त्वरायामिति किम् / आसनादुत्थाय गच्छति / 1223 द्वितीयया // 5 / 4 / 78 / / द्वितीयान्तेन योगे धातोस्तुल्यकर्तकेऽर्थे वर्तमानात् त्वरायां गम्यमानायां धातोः संबन्धे णम् वा स्यात् / लोष्ठान् ग्राहं लोष्ठग्राहं युद्धयन्ते / यष्टीहिं यष्टिग्राहं युद्ध्यन्ते / दण्डमुद्यामं दण्डोद्यामं धावति। एवं नाम योद्धं त्वरन्ते यदायुधग्रहणमपि नाद्रियन्ते यत्किचिदासन्नं तद् गृहन्ति / पक्षे लोष्ठान् यष्टीहीला युद्धयन्ते / खरायामित्येव / खड्गं गृहीत्वा युद्धयन्ते / योगविभागः उत्तरार्थः।