________________ 868 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त 1045 भूश्यदोऽल् // 5 // 3 // 23 // भू श्रि अद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोरल् प्रत्ययः स्यात् / प्रभवः विभवः। संभवः। प्रश्रयः। प्रतिश्रयः / संश्रयः / प्रघसः / विघसः संघसः / उपसर्गादित्येव / भावः / श्रायः। घासः / भूश्योरुपसर्गादेवेति नियमार्थ वचनम् / कथं प्रभावः विभावः अनुभावः ? बहुलाधिकारात् / प्रकृष्टो भाव इत्यादिपादिसमासो वा / लकारो 'मिग्मीगोऽखलिचलि' इत्यत्र विशेषणार्थः। 1046 न्यादो नवा // 5 // 3 // 24 // निपूर्वाददेरलि घस्लभावोऽकारस्य दीर्घत्वं च वा निपात्यते ! न्यादः / निघसः / 1047 संनिव्युपाद्यमः // 5 // 3 // 26 // एभ्य उपसर्गेभ्यः पराद यमेर्भावाकोरल् वा स्यात् / संयमः / संयामः / नियमः। नियामः / वियमः / वियामः / उपयमः। उपयामः। 1048 नेर्नदगदपठस्वनक्कणः // 5 // 3 // 26 // नेरुपसर्गात् परेभ्य एभ्यो भावाकोरल् प्रत्ययो वा स्यात् / निनदः / निनादः। निगदः / निगादः। निपठः। निपाठः / निस्वनः / निस्वानः / निकणः / निकाणः। . 1049 वैणे कणः // 5 // 3 // 27 // वीणायां भवों वैणः / वैणेऽर्थे वर्तमानादुपसर्गपूर्वात् कणेर्भावाकोरल् वा स्यात् / प्रकणी वीणायाः / प्रकाणो वीणायाः / एवं निकणः, निकाणः / वैण इति किंम् / प्रकाणः शङ्खलस्य / कथं कणः, काणों वीणायाः ? ' नवा कण' इत्यादिना सामान्येन विधानात् वैणेऽपि भवति / 1050 युवर्णदृवशरणगमृद्ग्रहः // 5 // 3 / 28 // उपसर्गाद् वेति च निवृत्तम् / इवर्णान्तेभ्य उवर्णान्तेभ्यो दृदृक्शरणगमिभ्य ऋकारान्तेभ्यो ग्रहेश्च धातो वाकोरल् स्यात् / घनोऽपवादः। चयः / निश्चयः / जयः / क्षयः / क्रयः। यवः। रवः। नवः / स्तवः / लवः। पवः। वरः / प्रचरः। दरः। आदरः / वशः। रणः / गमः / अवगमः। कृ-करः। गृ-गरः / तृ-तरः। दृ-दरः। शृ-शरः / ग्रहः। कथं वारः समूहः, वारोऽवसरः, गारः क्रियाभ्यावृत्तिः ? बहुलाधिकाराद् घम् / परिवार इति तु ण्यन्तादचि सिद्धम् / 1051 वर्षादयः क्लीवे // 5 / 3 / 29 // वर्षादयः शब्दा अलन्ताः क्लीबे यथादर्शनं भावाकोंनिपात्यन्ते / नपुंसके ताननिवृत्त्यर्थं वचनम् / वर्ष भयं धनं वनं खलं पदं युगम् / अत्र रथाङ्गकालविशेषयुग्मेष्वल गलगुणाभावौ च निपासनात् /