________________ 862 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते छदण् संवरणे। छादयतीति छदिः। 'छदेरिस्मन्त्रटको ' इति इस्वः। बाहुलकादीर्घत्वे छादिः / उभयं गृहच्छादनम् / ऊदृपी दीप्तिदेवनयोः / छर्दिः वमनम् / बंहिहेर्नलुक् च // 990 // आभ्यामिस् प्रत्ययो नकारस्य च लुक् स्यात् / बहुङ् वृद्धौ / बहिः अनभ्यन्तरे / वृहु शब्दे च / बर्हिः शिखी दर्भश्च / द्युतरादेश्च जः॥९९१॥ द्युति दीप्तावित्यस्मादिस् प्रत्ययो धालादेश्च वर्णस्य जकारः / ज्योतिः तेजः सूर्यः अग्निः तारका च / सहेर्ध च // 992 // षहि मर्षणे इत्यस्मादिस् प्रत्ययो धकारश्चान्तादेशः स्यात् / सधिः सत्त्वं भूमिः संयोगः सहिष्णुः अग्निः अनदाश्च / पस्थोऽन्तश्च // 993 // पां पाने इत्यस्मादिस् प्रत्ययः थकारश्चान्तः स्यात् / पाथिः पानं नदी आदित्यः ज्योतिः स्वर्गलोकश्च / / नियो डित् // 994 // णींग प्रापणे इत्यस्मात् डिदिस् प्रत्ययः स्यात् / निश्चिनोति / निरुपसर्गोऽयं पृथग्भावे / अवेणित् // 995 / / अव रक्षणादावित्यस्माणिदिस् प्रत्ययः स्यात् / आविः माकाश्ये / आविरभूत् / आविष्करोति / तुभूस्तुभ्यःकित् // 996 // एभ्यः किदिस् प्रत्ययः स्यात् / तुंक् वृत्त्यादौ / तुविः समुद्रः सरित् विवस्वान् प्रभुसंयोगश्च / भू सत्तायाम् / भुविः क्रतुः समुद्रः सरित् विवस्वाँश्च / ष्टुंग्क् स्तुतौ / स्तुविः स्तोता यज्ञश्च / रुर्तिजनितनिधनिमनिग्रन्थिपूतपित्रपिवपियजिप्रादिवपिभ्य उस् // 997 // एभ्य उस् प्रत्ययः स्यात् / रुदृक् अश्रुविमोचने। रोदुः अश्रुनिपातः। कंक् गतौ / अरुः व्रणः आदित्यः प्राणः समुद्रश्च / जनैचि प्रादुर्भावे / जनुः अपत्यं पिता माता जन्म प्राणी च / तनूयी विस्तारे। तनुः शरीरम् / धन धान्ये, सौत्रः। धनुः चापम् / मनिच् ज्ञाने / मनुः प्रजापतिः। ग्रन्थश संदर्भ / ग्रन्थुः ग्रन्थः / पृश् पालनपूरणयोः। परुः पर्व समुद्रः धर्मश्च / तपं संतापे / तपुः त्रपु शत्रु: भास्करः अग्निः कृच्छादि च / त्रपौषि लज्जायाम् / त्रपुः त्रपु / डुवपी बीजसन्ताने / वपुः शरीरं लावण्यं तेजश्च / यजी देवपूजादौ / यजुः अच्छन्दा श्रुतिः यज्ञोत्सवश्च / अदक् भक्षणे प्रपूर्वः। प्रादुः प्राकाश्ये उत्पत्तौ च / प्रादुर्बभूव / प्रादुरासीत् / टुवेपृङ् चलने / वेपुः वेपथुः। इणो णित् // 998 // इणं गतावित्यस्मा णिदुस् प्रत्ययः स्यात् / आयुः