________________ 74 सिद्धहैमबृहत्प्रक्रिया. [व्यंजनान्तपुंल्लिग किम् / अतिकिमौ / अतिकिमः / आदिशद्धस्य व्यवस्थावाचित्वात् तसादयस्थमवसाना ग्राह्याः। - 354 अयमियं पुंस्त्रियोः सौ // 2 / 1 / 38 // त्यदां संबंधिनि सौ परे पुंलिङ्गस्त्रीलिङ्गयोरिदमः स्थाने यथासंख्यमयम् इयम् इत्येतावादेशौ स्याताम् / अयम् / त्यदादिसंबंधिविज्ञानादिह न भवति / अतीदम् पुमान् स्त्री वा / एवं प्रियेदम् / पुंस्त्रियोरिति किम् / पुंसि इयम् , स्त्रियामयम् मा भूत् / नपुंसके तु नित्यत्वात् प्रथममेव सेलपि इदं कुण्डमित्यत्र प्रसङ्ग एव नास्ति / साकोऽप्ययमियमादेशौ भवतः / अयम् / अन्ये त्वादेशे कृते पश्चादकमिच्छन्ति / अयकम् / द्विवचने आद्वेर इति मस्य अत्वे लुगस्यादेत्यपद इति लुकि च। ___ 355 दो मः स्यादौ // 2 // 1 // 39 // त्यदां संबंधिनि स्यादौ परत इदमो दकारस्य मकारादेशः स्यात् / इमौ / इमे / इमको / इमके / त्यदादिसंबंधिविज्ञानादिह न भवति / अतीदमौ / इमम् / इमकम् / इमौ / इमको / इमान् / इमकान् / अन्वादेशे तु। 356 इदमः // 2 // 1 // 34 // त्यदादीनां संबंधिन इदमित्यस्य द्वितीयायांटायामोसि च परेऽन्वादेशे एनद् इत्ययमादेशः स्यात् / इमं साधुमावकश्यकमध्यापय अथो एनमेव सूत्राणि / सुशीलाविमौ तदेनौ गुरवो मानयन्ति / सुस्थिता इमे तदेनान् देवा अपि नमस्यन्ति / अक्सहितस्याप्ययमादेशः / __357 अद् व्यंजने // 2 // 1 // 35 // इदम इति षष्ठयन्तमपि सर्वादेशार्थ प्रथमान्ततयेह विपरिणम्यते / त्यदादिसंबंधीदम्शद्धो व्यंजनादौ स्यादौ परेऽन्वादेशे गम्यमानेऽद् भवति, अवृत्त्यन्ते / तकार उच्चारणार्थः / उत्तरत्र 'अनक ' इति वचनात् इह साक एव विधिः / इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् इत्यादि / सौ तु परत्वादयमादेशः। अथो अयं शीलवान् / अन्वा. देश इत्येव / इमकस्मै देहि / अतृत्त्यन्त इत्येव / अथो परमेमकाभ्यां रात्रिरधीता। व्यंजन इति किम् / अथो इमके तिष्ठन्ति / 358 टौस्यनः / / 2 / 1 / 37 // त्यदादिसंबंधिनि टायामोसि च परेऽग्वर्जितस्येदमः स्थाने अन इत्ययमादेशः स्यात् / अनेन / त्यदादिसंबंधिविज्ञानादिह न भवति / अतीदमा। अनक् इत्येव / इमकेन। अन्वादेशे एनेन /