________________ प्रकरणम् सिद्धहैमबृहत्प्रक्रिया. 331 दृश्यर्थैश्चिन्तायाम् // 2 // 1 // 30 // दृशिना समानार्था दृश्यर्थाः / तैर्धातुभिश्चिन्तायां वर्तमानोंगे युष्मदस्मदोर्यदुक्तं वस्नसादि तन्न स्यात् / जनो युष्मान् संदृश्यागतः / जनोऽस्मान् संदृश्यागतः / जनो युवां समीक्ष्यागतः / जन आवां समीक्ष्यागतः / जनस्त्वामपेक्षते / जनो मामपेक्षते / गुरुस्तव कार्यमालोचयति / गुरुमैम कार्यमालोचयति इत्यादिषु सर्वत्र मनसा चिन्तितं दृश्यर्थानामर्थः / दृश्यर्थैरिति किम् , / जनो वो मन्यते / जनो नो मन्यते / चिन्तायामिति किम् / जनो वः पश्यति / जनो नः पश्यति-चक्षुषा पश्यतीत्यर्थः। 332 नित्यमन्वादेशे // 21 // 31 // अन्वादेशविषये पदात् परयोर्युष्मदस्मदोर्यदुक्तं वस्नसादि तन्नित्यं स्यात् / यूयं विनीतास्तद् वो गुरवो मानयन्ति / वयं विनीतास्तद् नो गुरवो मानयन्तीत्यादि / 333 सपूर्वात् प्रथमान्ताद् वा // 2 // 1 // 32 // विद्यमानपूर्वात् प्रथमान्तात् पदात् परयोयुष्मदस्मदोरन्वादेशे वस्नसादयो वा स्युः। यूयं विनीतास्तद्गुरवो वो मानयन्ति, तद्गुरवो युष्मान् मानयन्ति / वयं विनीतास्तद् गुरवो नो मानयन्ति, तद् गुरवोऽस्मान् मानयन्ति इत्यादि / गम्येऽप्यन्वादेशे भवति / ग्रामे कम्बलो वः स्वमथो ग्रामे कम्बलो युष्माकं स्वमथो / सपूर्वादिति किम् / पटो युष्माकं स्वम् / अथो वः कम्बलः स्वम्। प्रथमान्तादिति किम् / पटो नगरे युष्माकं स्वम् / अथो कम्बलो ग्रामे वः स्वम् / माणवक जटिलक ते स्वमथो' इत्यादौ तु विशेषणपदस्य ' असदिवामन्त्र्यं पूर्वम् ' इत्यसद्वद्भावान्नास्ति सपूर्वप्रथमान्तमिति न भवत्येव विकल्पः / पूर्वेण नित्ये प्राप्ते वचनम् / व्याघ्रस्य इव पादौ अस्य व्याघ्रपात्-द् / व्याघ्रपादौ / व्याघ्रपादः / व्याघ्रपादम् / व्याघ्रपादौ / 334 यस्वरे पादः पदणिक्यघुटि // 2 / 1 / 102 // पादिति पादशब्दस्य लुप्ताकारस्य पादयतेर्वा कृतणिलोपस्य निर्देशः / पादन्तस्य नाम्नो णिक्यघुड्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे पदित्ययमादेशः स्यात् / स च निर्दिश्यमानस्यैव भवतीति पच्छब्दस्यैव भवति न तदन्तस्य सर्वस्य / व्याघ्रपदः। व्याघ्रपदा। व्याघ्रपाद्यामित्यादि / पादमाचष्टे पद्यमानं प्रयुक्ते वेति पादयतेः किपि, पाद् / पादौ / पादः। पादम् / पादौ / पदः / अत्र व्यपदेशिवभावेन पादन्तवम् / पदा। पाझ्याभित्यादि / यस्वर इति किम् / द्विपाद्भ्याम् / द्विपात्काम्यति / अणिक्यघुटीति किम् / पादमाचष्टे पादयति / क्येति क्यन्क्यङोरविशेषेण