SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम्] सिद्धहैमबृहत्पक्रिया. बहुलाः कृत्तिकाः। बहुला गौः / विदु अवयवे / विदुलः वेतसः / __ कुमुलतुमुलनिचुलवजुलमजुलपृथुलविशंस्थुलाङ्गुलमुकुलशष्कुला. दयः // 487 / / एते उलप्रत्ययान्ता निपात्यन्ते / कमितम्योरत उच्च / कुमुलं कुसुमं हिरण्यं च / कुमुलः शिशुः कान्तश्च / तुमुलं व्यामिश्रयुद्धं संकुलं च / निजेः किच्चश्च / निचुलः वञ्जुलः / वजेः स्वरानोऽन्तश्च / वजुलः निचुलः / मञ्जिः सौत्रः / मञ्जुलं मनोज्ञम् / प्रथे: पृथ् च / पृथुलः विस्तीर्णः / विपूर्वात् शंसेस्थोऽन्तश्च / विशंस्थुल; व्यग्रः। अजेगे च। अङ्गुलम् अष्टयवप्रमाणम् / मुचेः कित् कश्च / मुकुलः अविकसितपुष्पम् / शकेः खरात् पोऽन्तश्च / शष्कुली भक्ष्यविशेषः कर्णावयवश्च / आदिग्रहणाल्लकुलवल्गुलादयो भवन्ति / पिञ्जिमञ्जिकण्डिगण्डिबलिवधिवश्चिभ्य ऊलः॥४८८॥ एभ्यः ऊलः प्रत्ययः स्यात् / पिजुग् हिंसाबलदाननिकेतनेषु / पिजूल; हस्तिबन्धनपाशः राशिः कुलपतिश्च / मञ्जिः सौत्रः / मन्जूला मृदुभाषिणी। कडुङ् मदे / कण्डूलः अशिष्टो जनः / गडु वदनैकदेशे / गण्डूलः कृमिजातिः / बल प्राणनधान्यावरोधयोः / बलूलः ऋषिः मेघः मासश्च / बधि बन्धने / बधलः हस्ती घातकः रसायनं तन्त्रकारश्च / वञ्चिण् प्रलम्भने / वञ्चूलः हस्ती मत्स्यमारपक्षी च / ___ तमेवर्वोऽन्तो दीर्घस्तु वा // 489 // तमूच काङ्क्षायामित्यस्मादूलः प्रत्ययो वोऽन्तश्च स्याद् दीर्घस्तु वा। ताम्बूलं तम्बूलं उभयं पूगपत्रचूर्णसंयोगः / कुलिपुलिकुशिभ्यः कित् / / 490 // एभ्य ऊलः प्रत्ययः स्यात् स च कित। कुल बन्धुसंस्त्यानयोः। कुलूलः कृमिजातिः / पुल महत्त्वे / पुलूलः वृक्षविशेषः / कुशच् *लेषे / कुशूलः कोष्ठः। दुकूलकुकूलबब्बूललालशार्दूलादयः॥४९१।। दूकूलादयः शब्दा ऊलप्रत्ययान्ता निपात्यन्ते। दुक्योः कोऽन्तश्च / दूकूलं क्षौमं वासः। कुकूलं कारोषोऽग्निः। बधेळऽन्तो वश्च / बबूलः वृक्षविशेषः / लङ्गेर्दीर्घश्च / लाङ्गलं वालधिः। शृणाते - ऽन्तो वृद्धिश्च / शार्दूलः व्याघ्रः / आदिग्रहणाद् मार्जुलकञ्चूलादयो भवन्ति / महेरेलः // 492 // मह पूजायामित्यस्मादेलः प्रत्ययः स्यात् / महेला स्त्री। कटिपटिकाण्डगण्डिशकिकपिचाहिभ्य ओलः // 493 // एभ्य ओलः प्रत्ययः स्यात् / कटे वर्षावरणयोः / कटोलः कटविशेषः वादिनविशेषश्च / कटोला ओषधिः / पट गतौ / पटोला वल्लीविशेषः / कडु मदे / कण्डोलः विदलभाजन
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy