SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. // 46 // एभ्योऽलः प्रत्ययः स्यात् / मृद्क्षोदे / मर्दलः मुरजः / कदु रोदनाहानयोः / कन्दलः प्ररोहः / कुडुङ् दाहे। कुण्डलं कर्णाभरणम् / मडु भूषायाम् / मण्डलं देशः परिवारश्च / मगु गतौ / मङ्गलं शुभम् / पट गतौ / पटलं छदिः समूहः आवपनं नेत्ररोगश्च / ण्यन्तात-पाटलः वर्णः। शक्लंट शक्तौ / शकलं मित्तमसारं च / केटङ् सेचने / केवलं परिपूर्ण ज्ञानम् असहायं च / देङ् देवने / देवलः ऋषिः देवत्रातः क्रीडनश्च / कमूङ् कान्तौ ! कमलं पद्मम् / णिङि कामलो नेत्ररोगः। यमूं उपरमे। यमलं युग्मम् / शल गतौ / शललं शेधाङ्गरुहशङ्कः / कलि शब्दसंख्यानयोः / कललं गर्भप्रथमावस्था / पल गतौ। पललं भृष्टतिलातसीचूर्णम् / गुंङ् शब्दे / गवलः महिषः / धृग्श् कम्पने / धवल: *वेतः / अञ्चू गतौ च / अञ्चलः वस्त्रान्तः। चच्चू गतौ / चञ्चलः अस्थिरः / चप सान्त्वने / चपल; स एव / वहीं प्रापणे / वहलं सान्द्रम् / दिहींक लेपे / देहली द्वाराधःपट्टः / कुहणि विस्मापने / कोहलः भरतपुत्रः / बाहुलकाद् गुणः। तृप्लवनतरणयोः। तरलः अधीरः हारमध्यमणिश्च / गतौ-सरलः अकुटिलः वृक्षविशेषश्च / पिशत् अवयवे / पेशलः मनोज्ञः। तुस शब्दे। तोसलाः जनपदः / कुसच् श्लेषे / कोसलाः जनपदः / अनक पाणने / अनल: अग्निः / द्रम गतौ / द्रमलं जलम् / नहिलङ्गेर्दीर्घश्च // 466 / / आभ्यामलः प्रत्ययोऽनयोश्च दीर्घः स्यात् / हणींच बन्धने / नाहलः म्लेच्छः / लगु गतौ / लाङ्गलं हलम् / / ऋजनेोऽन्तश्च // 467 // आभ्यामलः प्रत्ययो गकारश्चान्तः स्यात् / कंक गतौ / अर्गला परिघः / जनैचि प्रादुर्भावे / जङ्गलं निर्जलो देशः / तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् // 468 // एभ्यः किदलः प्रत्ययः स्यात् / तृपौच पीतौ / तृपला लता / तृपलं शुष्कपर्ण शुष्कतृणं च / डुवपी बीजसन्ताने / उपल: पाषाणः / कुपच कोपे। कुपलः प्रवालः / कुशच श्लेषणे / कुशलः मेधावी / कुशलम् आरोग्यम् / कुटत् कौटिल्ये / कुटलः ऋषिः / वृष सेचने / वृषलः दासजातिः। मुसच् खण्डने / मुसलम् अवहननम् / कोर्वा // 469 // कुंङ शब्दे इत्यस्मादलः प्रत्ययः स च किद्वा / कुवलं बदरम् / कुवली क्षुद्रबदरी / कवलः ग्रासः / शमेव च वा / 470 // शमूच उपशमे इत्यस्मादल: प्रत्ययो मकारस्य च बकारो वा / शबलः कल्माषः / शमलं पुरीषं दुरितं च / 101
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy