SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [व्यंजनान्तपुंल्लिङ्ग रिति वचनम् ' अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति न्यायज्ञापनार्थम् / तेनात्रापि भवति-खरणाः। खुरणाः। अधातोरित्यकृत्वा भ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम् , तेनेह भवति-गोमन्तमिच्छति क्यन् , किए गोमान् / गोमन्तौ / गोमन्तः / हे गोमन् / अतु इति उदित्करणादृदितो न भवति / भवतीति भवन् / - 303 अन्तो नो लुक् // 4 / 2 / 96 // युक्तजक्षपश्चतः परस्य शितोऽवितोऽन्तः संबंधिनो नकारस्य लुक् स्यात् / ददत्-द् / ददतौ। ददतः। अक्षत्-द् / जक्षतौ / जक्षतः / दरिद्रत्-द् / दरिद्रतौ। दरिद्रतः / जाग्रत्-द् / जाग्रतो / जाग्रतः / चकासत्-द् / चकासतौ / चकासतः। शासत्-द् / शासतौ शासतः / थकारान्तो दधिमथ शब्दः / धुटस्तृतीय इति दत्वे विरामे वा / दधिमत-द / दधिमथौ / दधिमथः / दधिमथा / दधिमद्भ्याम् / दधिमत्सु / दकारान्तास्त्यदादयस्तेषामाद्वेर इत्यत्वे / 304 लुगस्यादेत्यपदे / / 2 / 1 / 113 // अपदादावकारे एकारे च परेऽकारस्य लुक् स्यात् / त्यस् इति जाते। 305 तः सौ सः // 2 / 1 / 42 / / आवेस्त्यदादीनां संबंधिनि सौ परे तकारस्य सकारादेशः स्यात् / स्यः / त्यौ / त्ये / इत्यादि सर्ववत / परमस्यः। स्यकः / त्यदादिसंबंधिविज्ञानादिह न भवति / प्रियत्यद् / सः। तो / ते / सकः / परमसः। यः / यौ / ये / एषः / एतौ / एते / 306 त्यदामेनदतदो द्वितीयाटौस्यवृत्त्यन्ते // 2 / 1 / 33 // त्यदादानां संबंधिन एतदित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे एनद इत्ययमादेशः स्यात् , अवृत्त्यन्ते-न चेदयमेतच्छब्दो वृत्तेरन्ते भवति / किश्चिद् विधातुं कथितस्य पुनरन्यद् विधातुं कथनमन्वादेशः / आगतो एष अथो एनं भोजय / एतकं साधुमावश्यकमध्यापयायो एनमेव सूत्राणि / अत्र साकोऽप्यादेशः / सुशीलावेतौ तदेनौ गुरवो मानयन्ति / सुस्थिता एते तदेनान् देवा अपि नमस्यन्ति / टा, एतेन रात्रिरधीता अथो एनेनाहरण्यधीतम् / ओस्, एतयोः शोभनं शीलमयो एनयोमहती कीर्तिः / सर्वाणि शास्त्राणि ज्ञातवन्तावेतौ अथो एनयोस्तिष्ठतो न्यः पूजाहः। त्यदामिति किम् / एतदं संगृहाण अथोएतदध्यापय ।संज्ञायामसर्वादित्वादत्यदादिः। अवृत्त्यन्त इति किम् / अथो परमैतं पश्य / अन्तग्रहणं किम् / एनच्छ्रितकः / अत्रा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy