________________ सिद्धहैमबृहत्प्रक्रिया. [ स्वरान्तस्त्रीलिङ्ग लक्ष्मीवद् रूपम् / लिङ्गान्तरानभिधायकं तदिति मतान्तरे तु ध्रुवद् रूपम् / प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवदेव / अमि शसि च प्रध्यं प्रध्य इति विशेषः / मुष्ठु धीर्थस्याः , सुष्टु ध्यायति वेति विग्रहे तु पूर्वमते सुधीः श्रीवत / मतान्तरे पुंवत् / सुष्टु धीरिति विग्रहे तु श्रीवदेव / ग्रामणीः सेनानीवत / ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः / एवं खलपवनादेरपि धुंधर्मत्वमौत्सर्गिकं बोध्यम् / धेनुर्बुद्धिवत् / एवं तन्वादयः / 265 स्त्रियाम् // 1 / 4 / 93 // घुटीति न संबंध्यते / क्रुशस्तुनस्तृच पुंसि स्त्रियां चेत्येकयोगाकरणात् / स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशः स्यानिनिमित्त एव / 266 स्त्रियां नृतोऽस्वस्रादेर्डीः // 2 // 41 // स्त्रियां वर्तमानान्नकारान्तादृकारान्ताच्च स्वस्रादिवर्जितान्नाम्नो ङीः स्यात् / / क्रोष्ट्री / इत्यादि नदीवत् / - पञ्चभिः क्रोष्टीभिः क्रीतैरिति विगृह्य 'मूल्यैः क्रीते इति इकणि तस्य च ' अनाम्न्यद्विरिति लुपि ङयादेरिति डीनिवृत्तौ च पञ्चक्रोष्टभी रथैः / अत्र निनिमित्तत्वादादेशस्य डीनिवृत्तावपि निवृत्तिन भवति / अत एवं च क्यङ्मानीति पुंवद्भावो न भवति / पुंवद्भावेनापि हि आदेश एवं निवर्तनीयः , स च निमित्तत्वाश्रयणेन डीनिवृत्तावपि निवर्तत एव / स्त्रियां नृत इत्यत्र स्त्रियामिति किम् / पश्च / नान्तायाः संख्याया युष्मदस्मदोरिवालिङ्गत्वात् / अत एव नकारलोपेऽपि आदित्यावपि न भवति। अस्वस्रादेरिति किम् / स्वसा। अतिस्वसा / दुहिता / ननान्दा / याता। माता / तिस्रः चतस्रः / तिमृचतस्रादेशस्थ विभक्त्यनन्तरनिमित्तत्वात् संनिपातलक्षणत्वेन तद्विघातकत्वाभावादेव डीनिवृत्तौ सिद्धायां स्वस्रादिषु तयोः पाठः संनिपातलक्षणन्यायस्यानित्यत्वज्ञापनार्थः, तेनातिदध्न्या कन्ययेत्यादौ विभक्तिनिमित्तेऽनादेशे सति ङीः सिद्धो भवति / एवं या सेत्यादिषु अकारादेशे आवपि / वधूनदीवत् / एवंजम्ब्वादयः / भ्रूः। 267 भ्रूश्नोः // 2 / 1 / 52 // भ्रू नु इत्येतयोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उवादेशः स्यात् ।भ्रुवो / भ्रुव इत्यादि श्रीवत् / सुभ्रूः / हे सुभ्रूः / कथं तर्हि हे सुभ्र, हे भीरु / स्त्रीपर्यायत्वादृङि कृते भविष्यति / खलपूः पूवत् / पूनर्भूः पुनरूढा स्त्री / पुनवौं / पुनर्वः / नित्यादिना वत्वम् /