________________ परस्मैपदपक्रिया] सिद्धहैमबृहत्मक्रिया. वैद्यश्चिकित्सामुद्यच्छति / चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः / फलवतीत्येव / संयच्छति उद्यच्छति आयच्छति परस्य वस्त्रम् / आपूर्वादकर्मकात् स्वाङ्गकर्मकाच 'आङो यमहनः' इति सिद्धेऽन्यकर्मकार्थ वचनम् / 575 पदान्तरगम्ये वा // 3 / 3 / 99 // अनन्तरमूत्रपञ्चकेन यदात्मनेपदमुकं तत् पदान्तराद् गम्ये फलवति कर्तरि वा स्यात् / स्वं शत्रु परिमोहयते परिमोहयति वा / स्वं यज्ञं यजते यजति वा / स्वं कटं कुरुते करोति वा / स्वमश्वं गमयते गमयति वा / स्वं शिरः कण्डूयते कण्डूयति वा। स्वां गां जानीते जानाति वा / स्वं शत्रमपवदते अपवदति वा / स्वान् ब्रीहीन् संयच्छते संयच्छति वा। " // इत्यात्मनेपदप्रक्रिया // // अथ परस्मैपदप्रक्रिया // // शेषात् परस्मै // भवति / 576 परानोः कृगः // 3 / 3 / 101 // परानुभ्यां परात् करोतेः कर्तरि परस्मैपदं स्यात् / पराकरोति / अनुकरोति / गङ्गामनु कुरुते तप इति नात्र करोतिरनुना संवध्यते / गन्धनादावर्थे गित्त्वात् फलवति च प्राप्तस्यात्मनेपदस्थापवादोऽयम् / 577 प्रत्यभ्यतेः क्षिपः // 3 / 3 / 102 // प्रत्यभ्यतिभ्यः परात् क्षिपेः कर्तरि परस्मैपदं स्यात् / प्रतिक्षिपति / अभिक्षिपति / अतिक्षिपति बटुम् / प्रतिक्षिपते भिक्षामिति नायं शिपिः प्रतिना संबध्यते / ईदित्वात् फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् / एवमुत्तरसूत्रद्वयमपि / . 578 प्रावहः // 3 // 3 // 103 // प्रपूर्वाद् वहतेः कर्तरि परस्मैपदं स्यात् / प्रवहति / 579 परेमषश्च // 3 // 3 / 104 // परिपूर्वान्मृर्वहेश्च कर्तरि परस्मैपदं स्यात् / परिमृष्यति / परिवहति / मैत्रं परि मृष्यते धनं परि वहते इत्यत्र न परिर्मूपिवहिभ्यां संबध्यते / वहेर्नेच्छन्त्यन्ये /