SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. ॥अथ स्वरान्तस्त्रीलिङ्गप्रकरणम् // आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः / दीर्घङयाबिति सिलुकि गङ्गा / . 257 औता / / 1 / 4 / 20 / / आवन्तस्य संबंधिना औता-प्रथमाद्वितीयाद्विवच नेनौकारेण सहाबन्तस्यैवैकारान्तादेशः स्यात् / गङ्गे / गङ्गाः। गङ्गाम् / गङ्गे / शसि स्त्रीत्वान्नत्वाभावे गङ्गाः। आप इत्येव / कीलालपौ पुरुषौ / तत्संबंधिविज्ञानादिह न भवति / बहुखट्वौ पुरुषो / इह तु भवति / ईपदपरिसमाप्ते खट्वे बहुखदे मञ्चकौ / 258 टौस्येत् // 1 / 4 / 19 // आबन्तस्य संबंधिनोष्टौसोः परयोरेकारान्तादेशः स्यात् / गङ्गया / गङ्गाभ्याम् / गङ्गाभिः / 259 आपो ङितां यै यास् यास् याम् // 1 / 4 / 17 // आबन्तसंबंधिनां . स्यादेङिन्तां यथासंख्यं यै यास् यास् याम् इत्येते आदेशाः स्युः / गङ्गायै / गङ्गायाः 2 / ह्रस्वापश्चेति आमो नामादेशे गङ्गानाम् / गङ्गायाम् / गङ्गयोः / गङ्गासु। 260 एदापः // 1 // 4 // 42 // आमन्त्र्येऽर्थे वर्तमानस्यावन्तस्य सिना सह एकारान्तादेशः स्यात् / हे गङ्गे / आ आप इति आकारप्रश्लेषादिह न भवति / हे प्रियख / आमन्त्र्य इत्येव / गङ्गा / एवं शालामालादयः / सर्वादीनामयं विशेषः 261 सर्वादेर्डस्पूर्वाः // 14 / 18 // सर्वादेराबन्तस्य संबंधिनां डिन्तां यै यास् यास् यामो डस्पूर्वाः स्युः / सर्वस्यै / सर्वस्याः 2 / सर्वासाम् / सर्वस्याम् / शेषं गङ्गावत् / एवं विश्वादय आवन्ताः / तीयस्य विकल्पेन डिस्कार्ये सर्वादित्वात् द्वितीयस्यै / द्वितीयाथै / एवं तृतीया / सर्वादेरिति किम् / सर्वा नाम काचित् सर्वायै / तत्सबंधिविज्ञानादिह न भवति / पियसाथै / दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा / दक्षिणपूर्वायै / दक्षिणपूर्वायाः 2 / दक्षिणपूर्वायाम् इत्यादि गङ्गावत् / अत्र बहुव्रीहिसमासस्यान्यपदार्थप्राधान्यात् सर्वादित्वाभावः / यद्येवं कथं दक्षिणपूर्वस्यै, दक्षिणपूर्वस्थाः 2, दक्षिणपूर्वस्याम् इति / दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति / अथ च बहुव्रीह्यादेः सर्वा त्वात् पूर्वमेवाक् भविष्यति / अन्ये तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति तन्मते कप्पत्यय एव / त्वत्कपितृको मत्कपितृक इत्यादि / अम्बा / अक्का / अल्ला /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy