SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ण्यन्तप्रक्रिया] सिद्धहैमबृहत्मक्रिया. 591 - 404 पर्यपात्स्खदः // 4 / 2 / 27 // पर्यपाभ्यामेव परस्य स्खदेौँ परे हवः स्यात् त्रिणम्परे तु वा दीर्घः। परिस्खदयति / अपस्वदयति / अवादप्यन्ये / अवस्वदयति / स्वदेघंटादिपाठेन सिद्ध नियमार्थ वचनम् / अन्योपसर्गपूर्वस्य मा भूत / प्रस्खादयति / अन्ये तु निषेधाधिकारे 'अपपरिस्खदः' इति पठिखा पर्यपपूवस्य स्वदेनिषेधमिच्छन्ति / तन्मते परिस्खादयति, अपस्खादयतीत्यादि भवति / पर्यपाभ्यामन्यत्र प्रस्खदयतीत्यादि भवति / 405 शमोऽदर्शने // 4 // // 28 // अदर्शनेऽर्थे वर्तमानस्य शमी परे इस्त्रः स्मात् त्रिणम्परे तु वा दीर्घः / शमयति रोगम् / अदर्शन इति किम् / निशामयति रूपम् / दर्शन एव केचिदिच्छन्ति / तेषामुदाहरणप्रत्युदाहरणयोर्विपर्ययः / 406 ज्वलहलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा // 4 // 2 // 32 // एषामनुपसर्गाणां णौ परे इस्त्रो वा स्यात् / ज्वलयति / ज्वालयति / ह्वलयति / हालयति / मलयति / मालयति / ग्लपयति / ग्लापयति / स्नपयति / स्नापयति / वनयति / वानयति / वमयति / वामयति / नमयति / नामयति / अनुपसर्गस्येति किम् / प्रज्वलयति / प्रहलयति / प्रह्मलयति। प्रग्लापयति / प्रस्नापयति / प्रवनयति। प्रवमयति / प्रणमयति / ग्लास्नोरमाप्ते शेषाणां तु प्राप्ते विभाषा / प्रापयति / 407 जिघ्रतेरिः // 42 // 38 // जिघ्रतेरुपान्त्यस्य ङपरे णाविकारो वा स्यात् / अजिघ्रिपत् / अजिघ्रपत् / तिनिर्देशो यङ्लनिवृत्त्यर्थः। अजाघ्रपत् / 408 तिष्ठतेः // 4 / 2 / 39 // तिष्ठतेरुपान्त्यस्य ङपरे णाविकारः स्यात् / अतिष्ठिपत् / योगविभागो नित्यार्थः / 409 ऊदुषो णौ // 4 / 2 / 40 // दुरुपान्त्यस्य णौ परे ऊकारादेशः स्यात् / दुष्यन्तं प्रयुङ्क्ते दूषयति / णाविति किम् / दोषो वर्तते / धातोः स्वरूपग्रहणे तत्पत्ययविज्ञानादिह न / दोषणं दुट् किम् / दुषमाचष्टे दुषयति। पुनर्णिग्रहणं डनिवृत्त्यर्थम् / के हस्वो न भवतीत्यन्ये / अदुदूषत् / - 410 चित्ते वा // 4 // 41 // चित्तविषयस्य चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद्वा स्यात् / चित्तं दुष्यति तदन्यः प्रयुङ्क्ते चित्तं दूषयति, दोषयति / मनो दूषयति,दोषयति / चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञां दूषयति, दोषयति।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy