SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ भवादयः] सिद्धहैमबृहत्मक्रिया. 531 वप्स्यति / वप्स्यते / वहीं पापणे // 6 // वहति / वहते / अवाक्षीत् / अवोढाम् / अवाक्षुः / अवोढ / अवक्षाताम् / अवक्षत / उवाह / ऊहतुः / उवहिथ / उवोढ / ' ऊहे / उह्यात् / वक्षीष्ट / वोढा / वक्ष्यति / वक्ष्यते। इवि यजादावुभयपदिनः। अथ त्रयः परस्मैपदिनः। टुओश्वि गतिद्धयोः // 7 // श्वयति / ट्धेश्वेर्वेति वैकल्पिके के द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे अशिश्वियत् / पक्षे 'ऋदिच्छ्वी'त्यादिनाऽङि 'श्वयत्यम्' इत्यादिना श्वादेशे च अश्वत् / अश्वताम् / अश्वन् / पक्षे सिचि 'नश्ची'ति वृद्धिनिषेधे अश्वयीत्। . 219 वा परोक्षायङि // 4 / 1 / 90 // श्वयते: सस्वरान्तस्था परोक्षायां यङि च परे वा स्कृत् स्यात् / अवित्परोक्षायां कित्त्वाद यजादित्वेन प्राप्ते विति परोक्षायां यङि चापाप्ते विभाषा। शुशाव / शुशुवतुः। शुशुवुः। शुशविथ / तृदभावे शिश्वाय / शिश्चियतुः। शिश्वियुः। शिश्वयिथ / शूयात् / श्वयिता / श्वयिष्यति / वद व्यक्तायां वाचि // 8 // वदति / वदव्रजेति वृद्धौ अवादीत् / उवाद / ऊदतुः। उपदिय / उद्यात् / वदिता। वदिष्यति / वसं निवासे // 9 // वसति। 'सस्तः सि' इति तकारे अवात्सीत् / अवात्ताम् / अवात्सुः। उवास। घस्वस इति षत्वे ऊपतुः / ऊषुः / उवसिथ। उवस्थ / उष्यात् / वत्स्यति / ... // इति यजादयः // // अथ भ्वादिषु घटादिः // - घटिप चेष्टायाम् // 1 // घटते / 'घटादेईस्वो दीर्घस्तु वा त्रिणम्परे' इति घटादिसंज्ञाफलं वक्ष्यते / घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेष घटादिकार्यविज्ञानम् , तेन ' उद्घाटयति कमलवनम् ,' प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि सिद्धम् / विघटयतीत्यादि तु अच्प्रत्ययान्तस्य ‘णिज्बहुलं नान्नः कृगादिषु' इति करोत्यर्थे णिचि रूपम् / अघटिष्ट / जघटे / घटिता / घटिष्यते / घटादित्वात् घटयति / अघाटि। अघटि / घाटं घाटम् / घटं घटम् / क्षजुङ् गतिदानयोः / अक्षाञ्जि / अक्षञ्जि / क्षानं क्षानं क्षजं क्षञ्जम् / क्षञ्जिदक्ष्यादीनां घटादिपाठबलादनुपान्त्यस्यापि वा दीर्घः / व्यथिए भयचलनयोः // 3 // व्यथते / अव्यथिष्ट / 'ज्याव्ये ' इत्यादिना विव्यथे। घटादिपाठात् व्यथयति / अव्याथि /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy