SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 457 2264 युष्मदस्मदोऽसोभादिस्यादेः // 7 // 3 // 30 // युष्मदस्मदित्येतयोः सकारायोकारादिभकारादिवर्जितस्याद्यन्तयोः स्वरेष्वन्त्यात् पूर्वोऽक् प्रत्ययः स्यात् / युष्मस्मदो स्वरेष्वन्त्यात् पूर्वस्यापवादः। त्वयका / मयका / वयकि / मयकि / युष्माककम् / अस्माककम् / परमखयका / परममयका / युष्मदस्मद इति किम् / तकया / यकया। सर्वकेण / विश्वकेन / इमकेन / अमुकेन / इमकैः। अमुकैः / भवकन्तौ / भवकन्तः। केचिद् भवच्छब्दस्यापि स्याद्यन्तस्यास्वरात् पूर्वमकमिच्छन्ति / तन्मते भवतका, भवतके, भवतकः, भवतकीत्यपि भवति / असोभादिस्यादेरिति किम् / युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, युवकाभ्याम् , आवकाभ्याम् / युष्मकाभिः / अस्मकाभिः।। 2265 अव्ययस्य को द् च // 7 // 3 // 31 // पानित्यायेऽर्थास्तेषु घोत्येषु अव्ययस्य स्वरेष्वन्त्यात् पूर्वमा प्रत्ययः स्यात् , तत्संनियोगे च यत्ककारान्तमव्ययं तस्य दकारोऽन्तादेशः स्यात् / कपोऽपवादः। कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः, नीचैस् नीचकैः। धिक् धकित् / हिरुक् हिरकुद्। पृथक् पृथकद् / चकारोऽन्वाचये, तेन सर्वस्याव्ययस्याक् स्यात् / ककारान्तस्य वक् दान्तादेशश्च / योगविभागस्त्यादेर्दादेशाभावार्थः। शक्लंट शक्तौ / यङ्लुए दिव् / अशाशक् / अकि अशाशकक् / 2266 तूष्णीकाम् // 7 // 3 // 32 // तूष्णीकामिति तूष्णीमो मकारात् पूर्व का इत्यागमो निपात्यते प्राङ् नित्यात् / अकोऽपवादः / कुत्सितमल्पमज्ञातं वा तूष्णों तूष्णीकामास्ते / तूष्णीकां तिष्ठति। 2267 कुत्सिताल्पाज्ञाते // 7 // 3 // 33 // कुत्सितं निन्दितम् / अल्पं महत्मतियोगि / अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वखादिना धर्मेणानिश्चितम् / सर्वथा खज्ञाते प्रयोगाभावात् / कुत्सिताल्पाज्ञातोपाधिकेऽर्थे वर्तमानाद्यथायोग कबादयः प्रत्ययाः स्युः / कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः / गर्दभकः / घृतकम् / तैलकम् / पचतकि / मिन्धकि / सर्वके / विश्वके / उचकैः। नीच्चकैः। तूष्णीकाम् / कथं कुत्सितकः, अल्पकः, अज्ञातकः ? कुत्सादीनां भेदोपपत्तेः कुत्सितादिभ्योऽपि कुत्सितादौ प्रत्ययो भवति, प्रकृष्टतर इत्यादौ प्रकर्षभेदे तरबादिवत् / राधकः, पूर्णकः, शूद्रक इत्यादौ सत्यामपि संज्ञायां कुत्सायोगात् कुत्सित इत्येव कप् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy