SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 442 सिद्धहैमबृहत्पक्रिया. [तद्धित ____2196 प्रियसुखादानुकूल्ये // 12 / 140 // प्रिय सुख इत्येताभ्यां कृगा योगे आनुकूल्ये गम्यमाने डाच् प्रत्ययः स्यात् मियाकरोति सुखाकरोति गुरुम् / गुरोरानुकूल्यं करोति तमाराधयतीत्यर्थः। आनुकूल्य इति किम् / पियं करोति सामवचनम् / सुखं करोत्यौषधपानम् / 2197 दुःखात् प्रातिकूल्ये // 7 / 2 / 141 // दुःखशब्दात् प्रातिकूल्ये गम्यमाने कृगा योगे डाच् प्रत्ययः स्यात् / दुःखाकरोति शत्रुम् / शत्रोः प्रातिकूल्यं करोति प्रतिकूलमाचरति-अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः / प्रातिकूल्य इति किम् / दुखं करोति रोगः। 2198 शूलात् पाके // 7 / 2 / 142 // शूलशब्दात् पाके गम्यमाने कृगा योगे डाच् प्रत्ययः स्यात् / शूलाकरोति मांसम् / शूले पचतीत्यर्थः / पाक इति किम् / शूलं करोति कदन्नम्। 2199 सत्यादशपथे // 7 // 2 // 143 // सत्यशब्दाच्छपथादन्यत्र वर्तमानात् कृगा योगे डाच् प्रत्ययः स्यात् / सत्याकरोति वणिग् भाण्डम् / कार्षापणादिदानेन मयावश्यमेवैतत् क्रेतव्यमिति विक्रेतारं प्रत्याययति / अशपथ इति किम् / सत्यं करोति / यदीदमेवं न स्यात् इदं मे इष्टं मा भूत् अनिष्टं वा भवखिति शपथं करोतीत्यर्थः। 2200 मद्रभद्राद् वपने // 7 // 2 // 144 // मद्रभद्रशब्दाभ्यां वपने मुण्डने गम्यमाने कृगा योगे डाच् प्रत्ययः स्यात् / मद्रं भद्रं वपनं करोति मद्राकरोति भद्राकरोति नापितः / शिशोर्मङ्गल्यं केशच्छेदनं करोतीत्यर्थः / मद्रभद्रशब्दौ मङ्गल्यवचनौ / वपन इति किम् / मद्रं भद्रं करोति साधुः। 2201 अव्यक्तानुकरणादनेकस्वरात् कृभ्वस्तिनानितौ विश्व // 7 // 2 / 145 // यस्मिन् ध्वनावकारादयो वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः तस्यानुकरणमव्यक्तानुकरणम्। तस्मादनेकस्वरादनितिपरात् कृभ्वस्तिभिर्योगे डावा स्यात् द्विश्चास्य प्रकृतिरुच्यते / प्रत्ययस्य द्विवचनानर्थक्यात् / 2202 डाच्यादौ / / 7 / 2 / 146 // अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आदौ पूर्वपदे योऽतस्तकारस्तस्य डाचि परे लुक् स्यात् / पटत् करोति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy