________________ 440 सिद्धहैमबृहत्मक्रिया. [तद्धित भवति तथा जातेः सामान्यस्य सर्वव्यक्तिसंबन्धे भवति / एवं च व्याप्ताविति सामान्योपादानात् कृभ्वस्तियोगे पूर्वेणैव स्सात्सिद्धः संपद्यर्थ तु वचनम् / चकार उत्तरत्रोभयोः समुच्चयार्थः। 2188 तत्राधीने // 7 / 2 / 132 // कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते / कर्मकर्तृभ्यां पागतत्तत्वे इति च निवृत्तम् / तत्रेति सप्तम्यन्तादधीने आयत्तेऽर्थे कृभ्वस्तिसंपद्भिर्योगे स्सात् प्रत्ययः स्यात् / राजन्यधीनं करोति राजसात्करोति / राजस्थामिकं करोतीत्यर्थः। राजसाद्भवति / राजसात्स्यात् / राजसात्संपद्यते / आचार्यसाकरोति / आचार्यसाद्भवति / आचार्यसात्स्यात् / आचार्यसात्संपद्यते / 2189 देये त्रा च // 7 / 2 / 133 // तत्रेति सप्तम्यन्ताद्देयोपाधिकेऽधीनेऽर्थे कृभ्वस्तिसंपद्भिर्योगे त्रा प्रत्ययः स्यात् / चकारो न स्सातोऽनुकर्षणार्थः तस्वाधीनसामात्रविवक्षायां पूर्वेणैव सिद्धत्वात् , किंतु कृभ्वस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्थः / तेनोत्तरत्र नानुवर्तते / देवेऽधीनं देयं करोति देवत्राकरोति द्रव्यम् / देवाय दातव्यमिति यत्स्थापितं तदिदानी देवाय ददातीत्यर्थः। देवेऽधीनं देयं भवति देवत्राभवति / देवत्रास्यात् / देवत्रासंपद्यते / गुरुत्रा करोति / गुरुत्रा भवति / गुरुत्रा स्यात् / गुरुत्रा संपद्यते / देय इति किम् / राजसाद्भवति राष्ट्रम् / / 2190 सप्तमीद्वितीयाद्देवादिभ्यः // 7 / 2 / 134 // सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो वा स्यात् स्वार्थे / देवेषु वसति देवत्रा वसति / देवेषु भवति देवत्रा भवति / देवेषु स्यात् देवत्रा स्यात् / देवान् करोति देवत्रा करोति / देवान् गच्छति देवत्रा गच्छति / एवं मनुष्यत्रा वसति / मनुष्यत्रा गच्छति। मर्त्यत्रा वसति / मर्त्यत्रा गच्छति / पुरुषत्रा वसति / पुरुषत्रा गच्छति / पुरुत्रा वसति / पुरुत्रागच्छति / बहुत्रा वसति / बहुत्रा गच्छति / देवादयः शिष्टप्रयोगगम्याः। . 2191 तीयशम्बबीजात् कृगा कृषौ डाच् / / 7 / 2 / 135 // तीयप्रत्ययान्तात् शम्बबीजात् इत्येताभ्यां च करोतिना योगे कृषिविषये डाच् प्रत्ययः स्यात् / द्वितीयं वारं करोति क्षेत्रं द्वितीयाकरोति क्षेत्रम् / द्वितीयं वारं कृपतीत्यर्थः / तृतीयाकरोति क्षेत्रम् / तृतीयं वारं कृषतीत्यर्थः / शम्बाकरोति क्षेत्रम् / अनुलोमकृष्टं पुनस्तिर्यक् कृषतीत्यर्थः। अन्ये खाहुः-शम्बसाधनः कृषिरिति शम्न कृपतीत्यर्थः। एके तु शम्बाकरोति कुलिवमित्युदाहरन्ति / लोहकं वर्धकुण्डलिका वा