SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 434 सिद्धहैमबृहत्प्रक्रिया. .. [तद्धित ___2159 वैकाद् ध्यमम् // 7 / 2 / 106 // एक इत्येतस्मात् संख्यावाचिनः प्रकारे वर्तमानाद् विचाले च गम्यमाने ध्यमञ् प्रत्ययो वा स्यात् / एकेन प्रकारेण ऐकध्यम् एकधा भुङ्क्ते / अनेकमेकं करोति ऐकध्यम् एकधा करोति / वा. ग्रहणं धार्थम् / ___2160 द्विवेर्धमधौ वा / / 7 / 2 / 107 // द्वि त्रि इत्येताभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च गम्यमाने धमञ् एधा इत्येतौ प्रत्ययौ वा स्याताम् / वचनभेदायथासंख्यं नास्ति / द्वाभ्यां प्रकाराभ्यां द्वैधम् द्वेधा त्रैधम् त्रेधा भुङ्क्ते / वावचनाद् द्विधा त्रिधा। एकं राशिं द्वौ करोति द्वैधम् द्वेधा द्विधा, त्रैधम् त्रेधा त्रिधा करोति / . 2161 तद्वति धण् // 7 // 2 // 108 // द्वित्रिभ्यां संख्यावाचिभ्यां तद्वतिप्रकारवति विचालवति चाभिधेये धण् प्रत्ययः स्यात् / द्वौ प्रकारौ विभागौ वा एषां द्वैधानि त्रैधानि / राजद्वैधानि / राजत्रैधानि / द्वैधीभावः / त्रैधीभावः / ___ 2162 वारे कृत्वम् / / 7 / 2 / 109 // संख्यामा इति वर्तते / वारो धात्वर्थस्यायोगपद्येन वृत्तिः तत्कालो वा / तस्मिन् वर्तमानात संख्याशद्धात तद्वति-वारवति धात्वर्थे क्रियायामर्थे कृत्वस प्रत्ययः स्यात् / पञ्च वारा अस्य पञ्चकृत्वो भुङ्क्ते / षट्कृत्वः / शतकृत्वः सहस्रकृत्वोऽधीते / बहुकृत्वः / गणकृत्वः / कतिकृत्वः / तावत्कृत्वः / भुज्यों वारवानिति भुज्यर्थस्य इदं विशेषणम् / तद्वतीत्येव / भोजनस्य पञ्च वाराः / संख्याया इत्येव / भूरयो वारा अस्य भोजनस्य / 2163 द्वित्रिचतुरः सुच् // 12 / 110 // द्वित्रिचतुर् इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्तमानेभ्यस्तद्वति सुच् प्रत्ययः स्यात् / कृत्वसोऽपवादः / द्वौ वारावस्य द्विर्भुङ्क्ते। त्रिः चतुर् भुङ्क्ते / इह तु द्विस्तावान् मासादः द्विर्दशेति गम्यमानेऽपि वारे भवति / चकारः 'सुचो वा' इत्यत्र विशेषणार्थः। 2164 एकात् सकृञ्चास्य // 7 / 2 / 111 // एकशद्धाद् वारे वर्तमानात् तद्वत्यभिधेये सुच् प्रत्ययः सकृदिति चास्यादेशो भवति / कृत्वसोऽपवादः / एकवारं भुङ्क्ते सकृद् भुङ्क्ते / 2165 बहोर्धासन्ने // 72 / 112 // बहुशवात् संख्यावाचिन आसन्ने
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy