SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धित पञ्चम्यन्तात् तस् प्रत्ययः स्यात् स च पित् / किम्-कस्मात् कुतः / सर्वादिसर्वतः। विश्वतः। यतः / ततः। बहु-बहुभ्यः बहुतः। किमः सर्वादित्वेऽपि यादिवजनान प्रामोतीति पृथगुपादानम् / यादिवर्जनं किम् / द्वाभ्याम् / त्वत्। मत्। युष्मत् / अस्मत् / भवतः / कथं द्वितः / त्वत्तः / मत्तः / युष्मत्तः। अस्मत्तः इति ? अहीयरुहोऽपादान इति भविष्यति / अनेन हि तस्विधाने 'आद्वेर ' इत्यत्वं स्यात् / तसावप्यत्वमिच्छन्त्येके / बहोर्वैपुल्यप्रतिषेधः किम् / बहोः सूपात् / किमयादिसर्वाद्यवैपुल्यवहोरिति किम् / वृक्षाद्विना / किंसर्वादिबहोश्च तसुविषयेऽपि परत्वादयमेव तस् / यतः प्रति / ततः प्रति / यत आगच्छति। तत आगच्छति / निरनुबन्धप्रत्ययान्तरकरणमत्वार्थम् / पित्करणं पुंवद्भावार्थम् / बढीभ्यो बहुतः / पञ्चम्यन्तमात्रादयं विधिः। सर्वतो हीयते / सर्वतो रोहति / सर्वतो हेतोः। सर्वतः पूर्वः। 2143 इतोऽतः कुतः // 7 / 2 / 90 // इतस् अतस् कुतस् इत्येते शब्दा निपात्यन्ते / इत इति इदमस्तसि इः सर्वादेशो निपात्यते / अस्मादितः। इमकस्मादितः। अत इति एतदः अः सर्वादेशः। एतस्मादतः / एतकस्मादतः। कुत इति किमः कुरित्यादेशः। कस्मात् कुतः / इह पञ्चम्या इति नानुवर्तते / लक्षणान्तरेण तसि तसौ वा सिद्धे आदेशमात्रं विधीयते / तेनोत्तरसूत्रेण तसि इतो भवान् अतोभवान् आद्यादितसौ इत आस्यतामिति भवति / 2144 भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् // 7 // 2 / 91 // भवतु आयुष्मत् दीर्घायुस् देवानां प्रिय इत्येतैः समानाधिकरणात् किमयादिसर्वाद्यवैपुल्यवहोः सर्वविभक्त्यन्तात् पित्तस् प्रत्ययो वा स्यात् / स भवान् / ततो भवान् / तौ भवन्तौ ततो भवन्तौ। ते भवन्तः ततो भवन्तः। तं भवन्तम् / ततो भवन्तम् / तेन भवता। ततो भवता। तस्मै भवते / ततो भवते / तस्मात् भवतः। ततो भवतः। तस्य भवतः। ततो भवतः। एवमयं भवान् इतो भवान् / को भवान् / कुतो भवान् इत्याधुदाहार्यम् / तथा स आयुष्मान् ततो आयुष्मान् / स दीर्घायुः ततो दीर्घायुः। स देवानां प्रियः ततो देवानां प्रियः। अयमायुष्मान् / इत आयुष्मान्। क आयुष्मान् / कुत आयुष्मान् / एवं दीर्घायुर्देवानापियाभ्यामपि / भवखित्युकारः सर्वादिपरिग्रहार्थः, तेन मतुशत्रन्तव्युदासः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy