SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 424 सिद्धहैमबृहत्मक्रिया. [तद्धित शकटीशद्वात्तु मतुः अनभिधानान्न भवति / केचित्त गवादेरनकारान्तादपीच्छन्ति / गवां समूहो गोत्रा सा विद्यते यस्य गौत्रिकः गावो वयांसि वास्य सन्ति गौवयसिकः। ___2109 निष्कादेः शतसहस्रात् // 7 / 2 / 57 // निष्को य आदिस्ततः परं यच्छतं सहस्रं च तदन्तान्मत्वर्थे इकण् प्रत्ययः स्यात् / नैष्कशतिकः / नैष्कसहस्रिकः। निष्कादेरिति किम् / शती / सहस्री / आदिग्रहणात् सुवर्णनिष्कशतमस्यास्तीत्यत्र न भवति / ___ 2110 एकादेः कर्मधारयात् // 7 // 2 / 58 // एकादेः कर्मधारयादकारान्तान्मत्वर्थे इकण् प्रत्ययः स्यात् / एको गौरेकगवः सोऽस्यास्त्यैकगविकः। ऐकशतिकः / ऐकसहस्रिकः। कर्मधारयादिति किम् / एकस्य गौरेकगवः सोऽस्यास्तीति न भवति / अत इत्येव / एकविंशतिरस्यास्तीति न भवति / कथमेकद्रव्यवत्त्वादिति ? एकेन द्रव्यवत्त्वमिति समासे भविष्यति। 2111 सर्वादेरिन् / / 7 / 2 / 59 // सर्वादेरकारान्तात् कर्मधारयान्मत्यर्थे इन् प्रत्ययः स्यात् / सर्वं धनं सर्वधनम् / तदस्यास्ति सर्वधनी। सर्वबीजी। सर्वेकेशी नटः। 2112 प्राणिस्थादस्वाङ्गाद् द्वन्द्वग्निन्द्यात् // 72 // 60 // प्राणिस्थोऽखागवाची अकारान्तो यो द्वन्द्वः समासो यश्च रुग्वाची निन्यवाची च शद्धस्तदन्तान्मत्वर्थे इन् प्रत्ययः स्यात् / द्वन्द्व-कटकवलयिनी। शंखनूपुरिणी। रुक्-किलासी। निन्द्य-ककुदावी / कालतालुमती / प्राणिस्थादिति किम् / पुष्पफलवान् वृक्षः। अस्वाङ्गादिति किम् / स्तनकेशवती / अत इत्येव / चित्रकललाटिकावती / अतोऽनेकस्वरादित्येव सिद्धे इकादिवाधनार्थ वचनम् / 2113 वातातीसारपिशाचात् कश्चान्तः // 72 / 61 // वात अतीसार पिशाच इत्येतेभ्यो मत्वर्थे इन् स्यात् ककारश्चान्तः / वातातीसारयो रुक्त्वात् पूर्वेणेन् सिद्धः कार्थमुपादानम् / पिशाचस्य तूभयार्थम् / वातकी / अतीसारकी / पिशाचकी। 2114 पूरणाद्वयास // 72 / 62 // पूरणप्रत्ययान्ताद् वयसि गम्यमाने मत्वर्थे इन्नेव स्यात् / पञ्चमो मासः संवत्सरो वास्यास्ति पञ्चमी बालकः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy