________________ प्रकरणम् ] . सिद्धहैमबृहत्मक्रिया. 27 145 चटते सद्वितीये // 1 / 3 / 7 // पदांते वर्तमानस्य रेफस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं शषस इत्येते आदेशाः स्युः / कश्चरति। कश्छादयति। कष्टीकते / कष्ठकारः / कस्तरति / कस्थुडति / 146 ख्यागि // 1 // 354 // पदान्ते वर्तमानस्य रेफस्य ख्यागि परे विसर्ग एव स्यात् / काख्यातः / रः पदान्त इत्यनेनैव सिद्धे नियमार्थमिदम् / तेन जिवामूलीयो न / 147 शिट्यघोषात् // 1 // 3 // 55 // अघोषात् परे शिटि परतः पदान्ते वर्तमानस्य रेफस्य विसर्ग एव स्यात् / परुषः त्सरुकः / वासः क्षौमम् / इदमपि नियमार्थम् / तेन सत्वषत्व:कपा न भवन्ति। 148 व्यत्यये लुग्वा // 1 // 3 // 56 // शिटः परोऽघोष इति व्यत्ययः। तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा स्यात् / चक्षुश्योतति।पक्षे चक्षुश् श्योतति / चक्षुः श्योतति। 149 नमस्पुरसो गतेः कखपफि रः सः // 2 // 3 // 5 // गतिसंज्ञयोर्नमस्पुरस् इत्येतयोः संबंधिनो रेफस्य कखपफेषु परेषु सकारादेशः स्यात् / नमस्कृत्य / पुरस्कृत्य / गतेरिति किम् / नमःकृत्वा / नमः करोति, नमःशब्दमुच्चारयतीत्यर्थः / नमःशब्दस्य कृग्योगे विकल्पेन गतिसंज्ञाविधानाद् वा।। 150 तिरसो वा // 2 // 3 // 2 // गतिसंज्ञकस्य तिरःशब्दसंबंधिनो रेफस्य करखपफेषु परेषु सकारादेशो वा स्यात् / तिरस्कृत्य / तिरःकृत्य / गतेरित्येव / तिरःकृत्वा काष्ठं गतः / अन्तर्धावपि 'कृगो नवा' इति विकल्पेन गतिसंज्ञाविधानात् तिरः कृत्वा / अगतेरप्यन्तर्धाविच्छत्यन्यः / तिरस्कृत्वा / 151 शिरोऽधसः पदे समासैक्ये // 2 // 3 // 4 // शिरस् अधस् इत्येतयोः संबंधिनो रेफस्य पदशब्दे परे सः स्यात् समासैक्ये-तौ चेनिमित्तनिमित्तिनावेकत्र समासे भवतः / शिरस्पदम् / अधस्पदम् / 'अव्ययं प्रद्धादिभिः' इति समासः / पद इति किम् / शिरः खण्डम् / समासेतिकिम् / शिरःपदम् / अधः पदम् / ऐक्य इति किम् / परमशिरःपदम् / परमाधःपदम् / 152 अतः कृकमिकंसकुंभकुशाकर्णीपात्रेऽनव्ययस्य // 2 // 3 // 5 // अकारात् परस्याऽनव्ययसंबंधिनो रेफस्य कृकम्यादिस्थेषु फरखपफेषु परेषु सः स्यात्, तो चेनिमित्तनिमित्तिनावेकत्र समासे भवतः।अयस्कृत् / यशस्कामः / अय