________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 359 संख्यादेश्वार्हदलुचः इति प्रामोति / अतस्मिन्निति किम् / शतं मानमस्य शतकं स्तोत्रम् / शतकनिदानम् / अत्र हि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते / अन्यस्मिँस्तु शते भवत्येव / शतेन क्रीतं शाटकशतं शत्यम् , शतिकम् / 1784 वातोरिकः // 6 / 4 / 132 // अत्वन्तायाः संख्याया आ अहंदाद्योऽर्थो वक्ष्यते तस्मिन्निकः प्रत्ययो वा स्यात् / यावतिकम् / यावत्कम् / तावतिकम् / तावत्कम् / विधानसामर्थ्यादिकारलोपो न भवति।। 1785 कार्षापणादिकट प्रतिश्चास्य वा // 64 / 133 // कार्षापणशब्दादाईदर्थे इकट् प्रत्ययः स्यात् अस्य च कार्षापणशब्दस्य प्रतीत्यादेशो वा भवति। कार्षापणिकम् / कार्षापणिकी। प्रतिकम् / प्रतिकी। चकार आदेशस्य प्रत्ययसंनियोगशिष्टत्वार्थः / अत एव द्विगोलपि प्रत्यादेशो न भवति / द्विकार्षापणम् / अध्यर्धकार्षापणम् / अस्येति स्थानिप्रतिपत्त्यर्थम् / अन्यथा प्रतिः प्रत्ययान्तरं विज्ञायेत / टकारो ङन्यर्थः। 1786 अधीत् पलकंसकर्षात् // 6 / 4 / 134 // अर्धशद्धपूर्वात् पलकंसकर्ष इत्येवमन्तानाम्न आहेदर्थे इकट् प्रत्ययः स्यात् / अर्धपलिकम् / अर्धपलिकी। अर्धकंसिकम् / अर्धकंसिकी / अर्धकर्षिकम् / अर्धकर्षिकी। 1787 कंसार्धात् // 64 / 135 // कंस अर्ध इत्येताभ्यामाईदर्थे इकट प्रत्ययः स्यात् / कंसिकम् / कंसिकी। अधिकम् / अधिकी। 1788 सहस्रशतमानादण् // 6 // 4 // 136 // सहस्र शतमान इत्येताभ्यामाईदर्थेऽण् प्रत्ययः स्यात् / केकणोरपवादः / सहस्रेण क्रीतः साहस्रः / शतमानेन शातमानः / वसनादित्यत्र सहस्रशतमानग्रहणमकृत्वाऽणवचनं 'नवाणः' इत्येवमर्थम् / 1789 शूर्पाद्वाञ् // 6 / 4 / 137 // शूर्पशब्दादाहदर्थेऽञ् प्रत्ययो वा स्यात् / इकणोऽपवादः / शौर्पम् / शौर्पिकम् / 1790 वसनात् // 6 / 4 / 138 // वसनशब्दादार्हदर्थेऽञ् प्रत्ययः स्यात् / वसनेन क्रीतं वासनम् /