________________ सिद्धहैमबृहत्मक्रिया. [ असन्धि स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति / स्वयं ह रथेन याति उपाध्याय पदातिं गमयति / आशिषि-सिद्धान्तमध्येषीष्ठाः 3 व्याकरणं च तात / सिद्धान्तमध्येषीष्ठा व्याकरणं च तात / प्रैषे-त्वं ह पूर्व ग्रामं गच्छ 3 चैत्रो दक्षिणम् / त्वंह पूर्व ग्रामं गच्छ चैत्रो दक्षिणम् / त्यादेरित्येव / भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः / साकांक्षस्येत्येव / दीर्घ ते आयुरस्तु / 89 चितीवार्थे / / 7 / 4 / 93 // इवार्थे-उपमायां वर्तमाने चित् इत्यस्मिन्निपाते प्रयुज्यमाने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / अग्निश्चिद् भाश्यात् / अनिश्चिद् भायात् / चितीति किम् / अग्निरिव भायात / चितीतिरूपसत्ताश्रयणादप्रयोगे न भवति / अग्निर्माणवको भायात् / इवार्थ इति किम् / कर्णवेष्टकांश्चित्कारय / कर्णवेष्टकानेवेत्यर्थः। 90 प्रतिश्रवणनिगृह्यानुयोगे // 14 / 94 // प्रतिश्रवणं परोक्तस्याभ्युपगमः, स्वयं प्रतिज्ञानं श्रवणाभिमुख्यं च / निगृह्य स्वमतात् प्रच्याव्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः / उपालंभ इति यावत् / एतयोर्वर्तमानस्य वाक्यस्य ष्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / अभ्युपगमे-गां मे देहि भोः, हन्त ते ददामि। हन्त ते ददामि / स्वयं प्रतिज्ञाने-नित्यः शब्दो भवितुमर्हति 3 / नित्यः शब्दो भवितुमर्हति / श्रवणाभिमुख्ये-भो देवदत्त किं मार्ष 3 / किं मार्ष / मार्षेति श्रवणाभिमुख्यद्योतको निपातः / निगृह्यानुयोगे-अद्य श्राद्धमित्यात्य 3 / अद्य श्राद्धमित्यात्य / अद्य श्राद्धमितिवादी युक्त्या स्वमतात् प्रच्याव्यैवमुपालभ्यते / 91 विचारे पूर्वस्य // 74 / 95 // किमिदं स्यात् किमिदमिति निरूपणं विचारः / संशय इति यावत् / तस्मिन् विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेध्वन्त्यः स्वरः प्लुतो वा स्यात् / अहिर्नु 3 रज्जुर्नु / अहिर्नु रज्जुर्नु / 92 ओमः प्रारंभे // 74 / 96 // प्रारंभे-प्रणामादेरभ्यादाने वर्तमानस्य ओम्शब्दस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / ओ३म् ऋषभं पवित्रम् / ओमषभं पवित्रम् / प्रारंभ इति किम् / आंददामि / ओमत्राभ्युपगमे / 93 हेः प्रश्नाख्याने // 7 / 4 / 97 // प्रश्नस्याख्याने पृष्टप्रतिवचने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो हिशब्दसंबंधी प्लुतो वा स्यात् / अकार्षीः कटं देवदत्त, अकार्ष हि३ / अकार्ष हि / हेरिति किम् / अकार्षीः कटं देवदत्त, करोमिननु / प्रश्नग्रहणं किम् / कटं देवदत्ताकार्ष हि / अप्रश्नपूर्वकाख्याने न भवति /