________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 247 1144 हरितादेरञः // 6 // 1 // 56 // बिदाद्यन्तर्गणो हरितादिः / वृद्धे विहितो योऽञ तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये आयनण प्रत्ययः स्यात् / हरितस्यापत्यं युवा हारितायनः / कैन्दासायनः / हरितादेरिति किम् / बैदस्यापत्यं युवा बैदः। अत्रेको लुप् / अत्र इति किम् / हरितस्यापत्यं दृद्धं हारितः / 1145 क्रोष्टुशलको क् च // 6 // 1 // 56 // क्रोष्टु शलकु इत्येताभ्यां वृद्धेऽपत्ये आयनण प्रत्ययः स्यात् / क्रोष्टुरपत्यं वृद्धं क्रौष्टायनः। शालङ्कायनः / 1146 दर्भकृष्णाग्निशमरणशरदच्छुनकादाग्रायणब्राह्मणवार्षगण्यवासिष्ठभार्गववात्स्ये // 6 / 1157 / / दर्भादिभ्य आग्रायणादिषु यथासंख्यं वृद्धेष्वपत्येषु आयनण् प्रत्यय: स्यात् / दर्भादाग्रायणे-दर्भस्यापत्यं वृद्धमारायणश्चेत् दार्भायणः। दाभिरन्यः। कृष्णाद ब्राह्मणे-काष्णायनो ब्राह्मणः / काष्णिरन्यः। अग्निशर्मणो वार्षगण्ये-आग्निशर्मायणो वार्षगण्यः / आग्निशमिरन्यः। रणाद्वासिष्ठेराणायनो वासिष्ठः। राणिरन्यः। शरद्वतो भार्गवे-शारद्वतायनो भार्गवः / च्छुनको विदादी। 1147 जीवन्तपर्वतावा // 3 / 1 / 58 // जीवन्तपर्वताभ्यां वृद्धेऽपत्ये आयनण प्रत्ययो वा स्यात् / जैवन्तायनः / जैवन्तिः / पार्वतायनः / पार्वतिः। वृद्धे इत्येव / जैवन्तिः / 1148 द्रोणादा // 6 / 1 / 59 // योगविभागाद् वृद्ध इति निवृत्तम् / द्रोणशब्दादपत्यमाने आयनण् प्रत्ययो वा स्यात् / द्रोणायनः। द्रौणिः। 1149 शिवादेरण् // 6 / 1 / 60 // शिवादिभ्यो डसन्तेभ्योऽपत्यमात्रेऽण प्रत्यय: स्यात् / अत इादेरपवादः / शिवस्यापत्य शैवः। पौष्ठः। 1150 ऋषिवृष्ण्यन्धककुरुभ्यः // 6 / 1 / 61 // ऋषयो लौकिका वसिष्ठादयः अपत्ययोगात् / वृष्णयः अन्धकाः। कुरवश्व प्रसिद्धा वंशाख्याः क्षत्रियाः। ऋष्यादिवचनेभ्यः शब्देभ्योऽपत्येऽण् प्रत्ययः स्यात् / इोऽपवादः / ऋषिवासिष्ठः। वैश्वामित्रः। दृष्णि-वासुदेवः। आनिरुद्धः। अन्धक-श्वाफल्कः / रान्ध्रसः। कुरु-नाकुलः / साहदेवः। अत्र्यादिभ्यस्तु परसात् एयण व्येत्रो च