________________ प्रकरणम् सिद्धहैमबृहत्पक्रिया. 245 ङन्यां च मानव्यायनीति स्यात् तत्कथं मानवी प्रजेति ? उच्यते / अपत्यसामान्यविवक्षायां ' ङसोऽपत्ये ' इत्यणि भविष्यति / कथमनन्तरो रामो जामदग्न्यः व्यासः पाराशयः ? पुत्रेऽपि पौत्रादिकार्यकरैणात् तथोच्यते / अनन्तरापत्यविवक्षायां जामदग्नः / पाराशरिः। कथं पाराशरः? तस्येदमिति विवक्षायां भविष्यति / 1131 मधुषभ्रोर्ब्राह्मणकौशिके // 6 // 1 // 43 // मधुशद्वाद् बभ्रुशद्धाच यथासंख्यं ब्राह्मणे कौशिके वृद्धेऽपत्येऽर्थे यञ् मत्ययः स्यात् / माधव्योब्राह्मणः। माधवोऽन्यः। बाभ्रव्यः कोशिकः। बाभ्रवोऽन्यः। बभ्रोगर्गादिपाठाद् यत्रि सिद्ध कौशिके नियमार्थ वचनम् / गर्गादिपाठस्तु लोहितादिकार्यार्थः तेन बाभ्रव्यायणीति नित्यं डायन्। केचितु अकौशिकेऽपि लोहितादिपाठाद्यअमिच्छन्ति , तन्मतेनेदं यविधानं बभ्रोलॊहितादेवहिष्करणार्थम् / तेन कौशिके यत्रि सति लोहितादिकार्य न भवति / तथा च स्त्रियां डायन् वा भवति / बाभ्रवी बाभ्रव्यायणी च कौशिकी। 1132 कपियोधादाङ्गिरसे॥६।१।४४॥कपिवोधशद्धाभ्यामाङ्गिरसेऽपत्यविशेषे वृद्धे यञ् प्रत्ययः स्यात् / कपेरपत्यं वृद्धमाङ्गिरसः काप्यः। एवं बौध्यः। अन्यः कापेयः। बौधिः। कपिशरो गर्गादिषु पठ्यते तस्येहोपादानं नियमार्थम् / आङ्गिरस एव यञ् नान्यत्रेति / लोहितादिकार्यार्थश्व गणपाठः / काप्यायनी / मधुबोधयोस्तु यत्रन्तयोरुभयम् / माधवी / माधव्यायनी / बौधी / बौध्यायनी। 1133 वतण्डात् // 6 // 1 // 45 // वतण्डशद्धादागिरसेऽपत्यविशेष योव स्यात् / वतण्डस्यापत्यं वृद्धमाङ्गिरसः वातण्डयः। आङ्गिरसादन्यत्र गर्गादिशिवादिपाठाद्या अण च भवतः / वातण्डयः। वातण्डः। गर्गादिपाठादेव यत्रि सिद्धे वचनमाङ्गिरसे शिवाद्यबाधनार्थम् / शिवादिपाठोऽप्यस्य वृद्ध एवाणविधानार्थः / अन्यत्र हि ऋषित्वादेवाण सिद्धः / 1134 स्त्रियां लुप् // 6 // 1 // 46 // वतण्डशब्दादागिरसेऽपत्यविशेषे वृद्ध स्त्रियां यत्रो लुप् स्यात् / वतण्डस्यापत्यं वृद्धं स्त्री आङ्गिरसी वतण्डी। जातिलक्षणो डीः। अनाङ्गिरसे तु शिवादिपाठात् वातण्डी। लोहितादिपाठाद् वातण्डयायनी / 1135 कुञ्जादे यन्यः // 11 // 47 // कुञ्जादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे सायन्यः प्रत्ययः स्यात् / कुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः / वृद्ध इत्येव /