SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 24.1H 1112 युववृद्धं कुत्साचे वा // 6 // 15 // युवा च वृद्धं चापत्यं यथासंख्य कुत्सायामर्चायां च विषये युवसंज्ञं वा स्यात् / 1113 आद्यात् // 6 // 1 // 29 // अपत्ये येऽणादयः प्रत्ययास्ते आद्यात्परमप्रकृतेरेव स्युः / पौत्राधपत्यं सर्वपूर्वजानामापरमप्रकृतेः पारंपर्येण संबंधादपत्यं भवति, तत्र तैस्तैः संबंधविवक्षायामनन्तरदृद्धयुवभ्योऽपि प्रत्ययः प्रामोतीति नियमार्थ आरंभः। उपगोरपत्यमनन्तरं वृद्धं वा औपगवः। तस्याप्यौपगविः। औपगवेरप्यौपगवः / 1114 वृद्धानि // 6 // 1 // 30 // यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात् वृद्धात् परमप्रकृतेर्यो वृद्धप्रत्ययस्तदन्तात् स्यात् / 'आद्यात्' इत्यस्यापवादः। वृद्धादिति यूनि प्रकृतिविधीयते / गर्गस्यापत्यं वृद्धं गार्ग्यः। तस्यापत्यं युवा गाायणः / युवा औपगविः / गाायणस्य अपत्यं युवा गाायणः। अत्रायनम् इञ् च न भवति / 1115 अत इब् // 6 // 1 // 31 // उसोऽपत्य इति वर्तते / अकारान्ताद् ङसन्तानाम्नोऽपत्येऽर्थे इञ् प्रत्ययः स्यात् / अणोऽपवादः / दक्षस्यापत्यं दाक्षिः / अत इति किम् / शौभंयः। कैलालपः। केचित्तु शुभंयाकीलालपाशद्वाभ्यामणमपि नेच्छन्ति / कथं 'त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् // प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ' // ? : तस्येदमिति विवक्षायामण भविष्यति / अपत्यविवक्षायां तु दाशरथिरित्येव स्यात् / अथ काकबकशुकादेः कस्मान्न भवति ? २जात्यैवापत्यार्थस्य पात्रादेरनन्तरस्य चाभिहितत्वात् / यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव / यथा 'कुतश्चरतिः मायूरिः केन कौपिञ्जलिः कृशः / एतेन काक्यादिभ्य एयणादयोऽपि व्याख्याताः / कथं तर्हि क्रौञ्चः कौकिलः गौधेरः चाटकर इति ? जातिशद्धा एवैते 1 यूनि प्रत्यये विधातव्ये वृद्धप्रत्ययान्त एव आद्य इत्यर्थः / 2 यतः सवेऽपि लोकः काकं दृष्ट्वा काकोऽसावित्येव व्यवहरति न तु काकापत्यमिति //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy