________________ सिद्धहैमबृहत्प्रक्रिया. एकशेपसमास शिष्यते वा / पिता च माता च पितरौ / पक्षे मातापितरौ / मातुरच॑त्वात् पूर्वनिपातः। . 126 श्वशुरः श्वश्रूभ्यां वा / / 3 / 1 / 123 // श्वश्रूशब्देन सहोक्तौ श्वशुरशब्द एको वा शिष्यते / श्वशुरश्च श्वश्रूश्च श्वशुरौ / श्वश्रूश्वशुरौ। द्विवचनं जातौ धवयोगे च वर्तमानयोः श्वश्वोः परिग्रहार्थम् / तेन जातो तन्मात्रभेदे 'पुरुषः खिया' इति वक्ष्यमाणो नित्यविधिन भवति / 927 वृद्धो यूना तन्मात्रभेदे // 3 / 1 / 124 // वृद्धः पौत्रादियुवा जीवद्वंश्यादिः / वृद्धस्य गूना सहोक्तो वृद्धवाच्येकः शिष्यते, तन्मात्र एव चेद् भेदोविशेषः स्यात् न चेत् प्रकृतिभेदोऽर्थभेदो वाऽन्यो भवतीत्यर्थः / गायश्च गार्यायणश्च गार्यो / वृद्ध इति किम् / गर्गश्च गाायणश्च गर्गगाायणौ / यूनेति किम् / गार्थश्च गर्गच गायेगी / तन्मात्रभेद इति किम् / गार्यवात्स्यायनौ / अत्र प्रकतिरन्या / भागवित्तिभागवित्तिकौ / अत्र कुत्सा सौवीरदेशत्वं चान्योऽर्थः / 928 स्त्री पुंवच्च // 3 / 1 / 126 // वृद्धस्त्रीवाची शद्धो युववाचिना सहोक्तावेकः शिष्यते पुंवच्च-स्त्यर्थः पुमर्थो भवतीत्यर्थः , तन्मात्रभेदे / गार्गी च गाायणश्च गाग्र्यो / गार्गी च गाायणौ च गर्गाः। अत्र पुंवद्भावाद् डीनिवृत्तौ यत्रो लुप् गर्गानिति 'शसोऽता सश्च नः पुंसि' इति नत्वं च / इमौ गाावित्यनुप्रयोगस्यापि पुंस्त्व म् / 929. पुरुषः स्त्रिया // 3 // 11126 // पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः / स्त्रीवाचिना शब्देन सहोक्तौ पुरुषवाची शब्द एकः शिष्यते तन्मात्रभेदे-स्त्रीपुरुषमात्रभेदश्चेद् भवति / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / कुक्कुटश्च कुक्कुटा च कुक्कुटौ / पुरुष इति किम् / तीरं नदनदीपतेः। तन्मात्रभेद इत्येव / हंसश्च वरटा च हंसवरदे / तत्र प्रकृतिभेदः। गणकगणक्यौ / अत्र धवयोगलक्षणोऽर्थभेदः / कुक्कुटमयूर्यो / अत्र प्रकृत्यर्थयोर्भेदः / कथं ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च ब्राह्मणवत्साब्राह्मणीवत्सौ ? / न ह्यत्र स्त्रीपुरुषमात्रभेदादन्यो भेदोऽस्ति / सत्यम् / तदित्यनेन प्रधानस्त्रीपुरुषौ परामृश्येते तेन प्रधानस्त्रीपुरुषमात्रकृत एव भेदे भवति। अत्र तु विशेषणीभूताप्रधानस्त्रीपुरुषकृतोऽपि भेदोऽस्तीति न भवति / अन्ये तु तन्मात्रभेदादधिके प्रकृतिभेदे एवैकशेषं नेच्छन्ति अर्थभेदे त्विच्छन्त्येव / इन्द्रश्च