SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 198 सिद्धहैमबृहत्पक्रिया. [ द्वन्द्वसमास स्पर्धे परम् / दीक्षातपसी / लघ्वादिग्रहणं किम् / कुक्कुटमयूरौ / मयूरकुक्कुटौ / एकमिति किम् / युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथाप्राप्तं पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् / शंखदुन्दुभिवीणाः , वीणादुन्दुभिशंखाः , शंखवीणादुन्दुभयः / कथं धनपतिरामकेशवाः , मृदङ्गशंखपणवाः ? रामशंखशद्वयोरुत्तराभ्यां समासे सति पूर्वेण समासः। द्वन्द्व इत्येव / विस्पष्टं पटुः विस्पष्टपटुः। 890 मासवर्णभ्रात्रनुपूर्वम् // 3 / 1 / 161 // मासवाचि वर्णवाचिभ्रातृवाचि च शररूपं द्वन्द्व समासे अनुपूर्व-यद्यत्पूर्व तत्पूर्व निपतति / अनुग्रहणादेकमिति निवृत्तम् / फाल्गुनचैत्रो / ब्राह्मणक्षत्रियौ / बलदेववासुदेवौ / 891 भर्तुतुल्यस्वरम् // 3 / 1 / 162 // भं नक्षत्रम् / तद्वाचि ऋतुवाचि च तुल्यसंख्यस्वरं द्वन्द्वे समासेऽनुपूर्व निपतति / कृत्तिकारोहिण्यौ / हेमन्तशिशिरौ। तुल्यस्वरमिति किम् / आर्द्रामृगशिरसी / ग्रीष्मवसन्तौ / . 892 पुष्यार्थाद् भे पुनर्वसुः॥३।१।१२९॥ एकशेषो निवृत्तः। एकमित्यनुवर्तते / पुष्यार्थाद् भे नक्षत्रे वर्तमानात् परोभ एव वर्तमानः पुनर्वसुशद्धः सहोक्तौ गम्यमानायां सामर्थ्यात यर्थः सन्नेक एकार्थः स्यात् / उदितौ पुष्यपुनर्वस / अर्थग्रहणं पर्यायार्थम् / तिष्यपुनर्वम् / समाहारे तु पुष्यपुनर्वसु / पुष्यार्थादिति किम् / आर्द्रापुनर्वसवः। पुनर्वसुरिति किम् / पुष्यमघाः / भ इति किम् / पुष्यपुनर्वसवो माणवकाः / सहोतावित्येव / पुष्यः पुनर्वसू येषां ते पुष्यपुनर्वसवो मुग्धाः / - 893 विरोधिनामद्रव्याणां न वा बन्छः स्वैः // 3 / 1 / 130 // द्रव्य गुणाद्याश्रयः। विरोधिवाचिनां शद्वानां द्रव्यमप्रतिपादयतां द्वंद्वो वा एक-एकार्थः स्यात् स चेद द्वन्द्वः स्वैः सजातीयरेवारभ्यते / सुखदुःखम् / सुखदुःखे / शीतोष्णम् / शीतोष्णे / विरोधिनामिति किम् / रूपरसगंधस्पर्शाः। अद्रव्याणामिति किम् / सुखदुःखाविमौग्रामौ। स्वैरिति किम् / बुद्धिसुखदुःखानि / समाहारे चाथै एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वाद् विकल्पे सिद्धे सर्वमिदं विकल्पानुक्रमणं नियमार्थम् / विरोधिनामेवाद्रव्याणामेव स्वैरेवेति। तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति। ..894. अश्ववडवपूर्वापराधरोत्तराः // 3 // 1 // 131 // अश्ववडवेति, पूर्वापरेति अधरोत्तरेति त्रयो द्वंद्वा एकार्था वा स्युः स्वैः / अश्वश्च वडवाच अश्ववडवम् , अश्ववडवा / अश्ववडवेति निर्देशादेवेतरेतरयोगे इस्वत्वं निपात्यते / पूर्वापरम्,
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy