________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 187 844 चतुष्पादगर्भिण्या // 3 / 1 / 112 // चत्वारः पादा यस्याः सा चतुपाद् गवादिजातिः। तद्वाचिनामैकार्थ गर्भिण्या गर्भिणीति नाम्ना सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / गौश्चासौ गर्भिणी च गोगर्भिणी। चतुष्पादिति किम् / ब्राह्मणी गर्भिणी / चतुष्पादिति किम् / ब्राह्मणी गर्भिणी / जातिरित्येव / कालाक्षी गर्भिणी / संज्ञाशब्दोऽयम् / जातेविशेष्यस्य पूर्वनिपातार्थ वचनम् / 845 युवा खलतिवलितजरद्वालिनैः // 3 / 1 / 113 // युवन्नित्येतन्नाभैकार्थ खलत्यादिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / युवा चासौ खलतिश्च युवखलतिः। एवं युवपलितः। युवजरन्। युववलिनः। वलयोऽस्य सन्ति वलिनः / अङ्गादिखान्नः / नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युवतिश्वासौ खलतिश्च युवखलतिः / एवं युवपलिता / युवजरती। युववलिना / युवशदस्य विशेष्यत्वात् परनिपाते प्राप्ते द्वयोर्वा गुणवचनवात् खञ्जकुण्टादिवदनियमे पूर्वनिपातार्थ वचनम् / 846 कृत्यतुल्याख्यमजात्या // 3 / 1 / 114 // कृत्यप्रत्ययान्तं तुल्याख्य च तुल्यपर्यायं नामैकार्थमजात्याजातिवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / भोज्यं च तदुष्णं च भोज्योष्णम् / एवं भोज्यलवणम् / तुल्याख्य-तुल्यश्वेतः। एवं सदृशश्वेतः / अजात्येति किम् / भोज्य ओदनः। कथं शीतपानीयम् ? / पानीयशब्दोऽयमौणादिको जलवाची तस्यायं विशेषणसमासः। जात्या समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थ वचनम् / 847 कुमारः श्रमणादिभिः // 3 / 1 / 115 // कुमार इत्येतनामैकार्थ श्रमणादिना नाम्ना सह समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / कुमारी चासौ श्रमणा च कुमारश्रमणा / एवं कुमारप्रजिता / श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी बंधकी दासी एते सप्त स्त्रीलिङ्गा एव / अध्यायक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण / येऽत्र स्त्रीलिङ्गास्तैः सह स्त्रीलिङ्ग एव कुमारशद्धः समस्यते शेषैस्तूभयलिङ्गः। नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति हि न्यायः श्रमणादीनां स्त्रीलिङ्गानां पाठादेव लभ्यते / पुंलिङ्गैःपूर्वनिपाते कामचारः। कुमारश्रमणः। तापसकुमारः। कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् / इह केचित् 'पूर्वकालैकसर्वजरत्पुराणनवकेवलपूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यम