________________ 184 सिद्धहैमबृहत्मक्रिया. [ तत्पुरुषसमास कर्मधारयश्च / पूर्वश्चासौ पुरुषश्च पूर्वपुरुषः। एवमपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः ? समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। विशेषणं विशेष्येणेत्यादिनैव सिद्धे स्पर्दै परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थ वचनम् / तेन पूर्वजरन् वीरपूर्वः पूर्वपटुः / कथमेकवीर इत्यादौ वीरादेः परस्य स्पर्धे पूर्वनिपातो न भवति ? बहुलाधिकारात् / अथ अपरं च तत् अर्ध चेत्यत्रानेन समासे / .832 वोत्तरपदेऽर्धे // 12126 // अपरशद्धस्य केवलस्य दिक्पूर्वपदस्य च अर्धशब्दे उत्तरपदे पश्चादेशो वा स्यात् / पश्चार्धम् / अपरार्धम् / दक्षिणापरस्याः अर्धः दक्षिणपश्चाधः / दक्षिणापराधः। 833 श्रेण्यादिकृत्यायैश्चव्यर्थे // 3 // 1 // 104 // श्रेण्यादि नामैकार्थ कृताद्यैर्नामभिः समस्यते च्व्यर्थे गम्यमाने स च समासस्तत्पुरुषः कर्मधारयश्च / अश्रेणयः श्रेणयः कृताःश्रेणिकृताः पुरुषाः। अनूका ऊकाः कृताः ऊककृताः।राशिस्थानीकृता इत्यर्थः। व्यर्थ इति किम् / श्रेणयः कृताः। किंचित् निगृहीता अनुगृहीता वेत्यर्थः। च्व्यन्तानां व्यर्थस्य च्चिनैवोक्तखानानेन समासः। व्यर्थे हि समासेनाभिधेयेऽयं समासो भवति / गत्यादिसूत्रेण तु नित्यसमासो भवत्येव। बहुवचनमाकृतिगणार्थम् / यत्र सामर्थ्य नास्ति तत्रेतिशद्धाध्याहारो द्रष्टव्यः। अनिर्धना निर्धना इत्युपकृताः। श्रेणिकृता इत्यादौ क्रियाकारकसंबंधमात्रं न विशेषणविशेप्यभाव इति वचनम् / ___834 क्तं ननादिभिन्नैः // 3 / 1 / 105 // नादयो नञ्प्रकाराः तैरेव भिन्नैर्नामभिः सह क्तान्तं नामैकार्थ सामर्थ्यादन समस्यते स च समासस्तत्पुरुषः कर्मधारयश्च / कृतं च तदकृतं च कृताकृतम् / इटः क्तावयवखाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम् / तेन क्लिष्टाक्लिशितमित्यादि / आदिग्रहणात् कृतापकृतम् / क्तमिति किम् / कर्तव्यमकर्तव्यम्। नत्रादिभिरेव भिरित्यवधारणं किम् / कृतं चाविहितं चेति प्रकृतिभेदे कृतं चाकर्तव्यं वेति प्रत्ययभेदे गतश्च प्राप्तोऽगतचाज्ञात इत्यर्थभेदे सिद्धं चाभुक्तं चेति प्रकृत्यर्थयोर्भेदे च मा भूत् / अवयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् / विशेषणं विशेष्येणेत्येव समासः सिद्धः किंतु क्रियाशद्धत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमार्थ वचनम् / तेनाकृतकृतम्, अनशिताशितमित्यादि न भवति /