________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 564 आख्यातयुपयोगे // 2 // 2 // 73 // आख्याता प्रतिवादयिता तत्र वर्तमानाद् गौणानाम्नः पञ्चमी स्यात् उपयोगे-नियमपूर्वकविद्याग्रहणविषये / उपाध्यायादधीते। आख्यातरीति किम् / उपाध्यायात् शास्त्रमागमयति / अत्र शास्त्रान्मा भूत् / उपयोग इति किम् / नटस्य शृणोति / उपयोगविविक्षायां त्वत्रापि भवति / नटाद् भारतं शृणोति / अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादित्येवमथै वचनम् / 565 गम्ययपः कर्माधारे // 2 / 274 // गम्यस्याप्रयुज्यमानस्य यपो यबन्तस्य यत्कर्माधारश्च तत्र वर्तमानाद् गौणानाम्नः पञ्चमी स्यात् / द्वितीयासप्तम्योरपवादः। प्रासादात आसनात प्रेक्षते / प्रासादमारुह्यासने उपविश्य प्रेक्षते इत्यर्थः। गम्यग्रहणं किम् / प्रासादमारुह्य शेते / न ह्यत्र यबन्तस्याप्रयोगे तदर्थः प्रतीयते / यग्रहणं किम् / प्रविश पिण्डीम् / ननु यथा कुमूलादादाय पचति कुमूलात् पचतीत्यत्रादानाङ्गे पाके पचेवर्तमानादुपात्तविषयमेतदपादानमिति पञ्चमी भवति एवमिहापि अपक्रमणाङ्गे दर्शने दृशेर्वतमानाद् भविष्यति। तथाहि-तत्ततोऽपक्रामति अनपक्रामद्धि न विषयं गृह्णीयात् / सत्यम् / किंतु आरुह्य उपविश्येति यबन्तार्थोऽपि गम्यते / ततो यथा यबन्ते प्रयुज्यमाने कर्माधिकरणयोद्वितीयासप्तम्यौ भवतस्तद्वदप्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्जेयातामिति सूत्रमारभ्यते / 566 प्रभृत्यन्यार्थदिक्शब्दबाहिरारादितरैः॥२।२।७६॥प्रभृत्यर्थैरन्याथैदिक्शब्दैर्वहिस् आरात् इतर इत्येतैश्च शब्दैर्युक्ताद् गौणानाम्नः पञ्चमी स्यात् / कार्तिक्याः प्रभृति / आरभ्य ग्रीष्मात् / अन्यो मैत्रात् / भिन्नश्चैत्रात् / ग्रामात् पूर्वस्यां दिशि वसति / ग्रामादुत्तरस्यां दिशि वसति। दिशि दृष्टाः शद्वा दिकशद्वा इति देशकालादित्तिनापि भवति / पूर्व उज्जयिन्या गोनर्दः / पश्चिमो रामात् कृष्णः / एतदर्थमेव शदशद्रोपादानम् / गम्यमानेनापि दिकशब्देन भवति। क्रोशाल्लक्ष्यं विध्यति / परेणेति गम्यते / न्यग मैत्रस्यावस्थित इति उपसर्जनत्वान्न दिकशद्धता। बहिर्गामात् / आरादित्यव्ययं दूरसमीपयोर्वाचकम्, तेन तद्योगे वक्ष्यमाणस्य 'आरादथैः' इति विकल्पस्यापवादोऽयम् / आराद् ग्रामात् क्षेत्रम् / इतरशरो द्वयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्थाद् भिद्यते। इतरश्चैत्रात् / तस्य द्वितीयो मैत्रादिरित्यर्थः / अथ जिनदत्तादन्योऽयं मैत्रस्य, जिनदत्तादितरोऽयं चैत्र स्य, छात्राणां पूर्वमामंत्रयस्व, कायस्य पूर्वमित्यादौ मैत्रचैत्रच्छात्रकायशब्दे 11